________________ कर्मविपाक ख्ये प्रथमे कर्मग्रन्थे कश्चिदेकप्रमृतिमानः, अपरस्तु द्वयादिप्रसृतिमान इति / एवं कर्मापि ज्ञानावारकादिपुद्गलैः प्रकृत्या किश्चिज्ज्ञानमावृणोति, किश्चिदर्शनं किश्चित्सुखदुःखानुभवं जनयती यादि / स्थित्या तु तदेव किञ्चित्रिशत्सागरोपमकोटीकोट्यादिकाल वस्थायि भवति / अनुभगतरतु तदेव एकस्थानिकद्विस्थानिकत्रिस्थानिकचतुःस्थानिकमन्दतीव्रतीव्रतरतीव्रतमरसयुक्तम् / प्रदेशतस्तु तदेवाल्पबहु-५.. प्रदेशनिष्पन्न मिति / यहाह-स्वभावः प्रकृतिः प्रोक्तः, स्थितिः कालावधारणम् / अनुभागो रसो ज्ञेगा, प्रदेशो दलसञ्चयः // 1 // " इति / संप्रति प्रकृति स्थित्यनुभागप्रदेशानामाद्यभेदप्रदर्शनार्थमाह-प्रकृतिभेद एष वक्ष्यमाणो भवति / अयमभिप्रायः-अस्मिन ग्रन्थे प्रकृतिप्ररूप गैव करिष्यते / इति गाथार्थः // 3 // संप्रति मृलोत्तरप्रकृतिसंख्यामाह मूलपयडीउ' 'अट्ठ उ, उत्तरगयडीण अट्ठवन्नसयं। तामि सभावभेया, हुंति हु भेया इमे सुणह // 4 // (पू०) व्याख्या-मूले प्रकृतयो 'मूलप्रकृतयः' प्रथमा इत्यर्थः / मूलभूता वा प्रकृतयों मूलप्रकृतय आद्या इत्यर्थः / 'अष्ट तु' अष्टं व, न तु नव, नापि सप्त, तुशब्दस्यावधारणार्थत्वात् / उत्तराः प्रकृतय उत्तरप्रकृतयः, तासामुत्तरप्रकृतीनां पुनरष्टपश्चाशदधिकं शतम् , पूर्वतनतुशब्दस्यैव विशेषणार्थत्वात् / विशेषणार्थत्वं चानेकार्थत्वादव्ययानाम् / 'तासा' प्रकृतीनां 15 'स्वभावभेदात्' धर्मभेदाभवन्त्येव भेदाः 'इमे' एते / हुशब्दस्यैवकारार्थत्वात् / तांश्च वक्ष्यमाणलक्षणान् 'शणुत' आकर्णयत यूयम् / इति गाथार्थः // 4 // प्रागभिहितमूलप्रकृतिभेदानाह पढममित्यादिगाथाद्वयेन' - . (पारमा०) मूलप्रकृतयोऽष्टौ, उत्तरप्रकृतीनां चाष्टापश्चाशं शतं भवति / संपति भेदसमर्थिकां युक्ति प्रतिपादयंस्तानेवाह-'तासां' मूलप्रकृत्युत्तरप्रकृतीनां 'स्वभावभेदात्' स्वरूपवै- 2, चिच्याद्भवन्ति 'भेदाः'प्रकाराः 'एते' अनन्तरग्रन्थेन विवक्षिताः शृणुतेति विलम्बपरिहारार्थम् / इति गाथार्थः // 4 // वचसः क्रमवर्तित्वात्प्रथमं मूलप्रकृतीः प्रतिपादयति पढमं नाणावरणं बीयं पुण दंमणस्स आवरणं / तइयं च वेयणीयं. तहा चउत्थं व' मोहणीयं // 5 // 5 आऊ नाम गोयं, अट्ठमयं अंतराइयं होइ / मुलपयडीउ एया, उत्तरपयडीउ कित्तेमि // 6 // 1 र गाहा / मूले जे० / 2 'न प्रथमम् आद्य जे० / 3 व्याख्याकारेण "तु' पाठमनुसृत्य व्याख्यातम् /