________________ मूलीत्तरप्रकृतिसङ्घया मूलप्रकृतयश्च (पू०) व्याख्या-'प्रथम' आद्यं 'ज्ञानावरणं' ज्ञानस्य मतिज्ञानादेरावरणमाच्छादनं क्रियते येन कर्मणा तज्ज्ञानावरणम् , द्वितीयं पुनः 'दर्शनस्यावरण' चक्षुर्दर्शनादेः स्वरूपतिरोधायकम् / तीयं च 'वेदनोयं वेद्यते येन सातासातस्त्ररूपं कर्मणा तद् वेदनीयं भवति / चतुर्थ तु मोह नीयमेव, तुशब्दस्यैवकारार्थत्वात् / मोहयतीति कृत्वा मोहनीयम् / इति गाथार्थः // 5 // 5 आयुःका पञ्चमं जीवस्य चतुर्गतिघनस्थितिकारणम् / जीवमनेकरूपैरुच्चावचैर्नामयतीति कृत्वा नाम, तच्च षष्ठम् / गां वाचं त्रायतीति गोत्रम् , उच्चैर्गोत्रादिभेदभिन्नं सप्तमम् / अष्टमकमन्तरायिक भवति / अन्तरायं दानादिविघ्नहेतुः कर्म, अन्तराये भवं अन्तरायिकम् / अन्तरा यारूपं वाऽन्तरायिकं दानलाभादिभेदभिन्नम् / 'मूलप्रकृतयः' आद्यप्रकृतयः 'एताः' उक्तलक्षगाः / उत्तरप्रकृतयः' तासामेव मूलप्रकृतीनां भेदान्तराणि किश्चिद्विशेषकृतानि / ताश्च 10 'कीतयामि' संशब्दयामि / इति गाथाद्वयार्थः // 6 // उक्सा मूलप्रकृतिभेदाः, साम्प्रतमुत्तरप्रकृतिभेदानाह गाथाद्वयेन (पारमा०.) प्रथमं 'ज्ञानावरणं' ज्ञायते परिच्छिद्यते वस्त्वनेनेति ज्ञानं सामान्यविशेषास्मके वस्तुनि विशेषग्रहणात्मको बोधः, आवियतेऽनेनेत्यावरणम् , मिथ्यात्वादिसचिवजीवव्यापाराहतकर्मवर्गगान्तःपाती विशिष्टपुद्गलसमूहः / ज्ञानस्यावरणं ज्ञानावरणम् 1 / द्वितीयं पुनः 15 'दर्शनस्यावरणम्' दृश्यतेऽनेनेति दर्शनं सामान्य विशेषात्मके वस्तुनि सामान्यग्रहणात्मको चौधः, तस्यावरणं दर्शनावरणम् 2 / तृतीयं च वेदनीयं' वेद्यते आह्लादादिरूपेणानुभूयते यत्तद् वेदनीयम् / यद्यपि च सर्व कर्म वेद्यते तथाऽपि पङ्कजादिशब्दवत् वेदनीयशब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयम् , इत्युच्यते, न शेषम् 3 / तथा चतुर्थ च 'मोहनीयं' मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति प्रवचनीयादित्वात्कर्तर्यनीयः 4 ॥शा 'आयुः' 20 अर्थात्पञ्चमम् , एति गच्छति प्रतिबन्धकतां नारकादिकुगतेनिष्क्रमितुमनसो जन्तोरित्यायुः / यद्वा एति गच्छति गत्यन्तरमनेनेत्यायुः 5 / 'नाम' अर्थात् षष्ठम् , नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम 6 / 'गोत्रं' अर्थात्सप्तमम् , गूयते शब्दयते उच्चावचैः शब्दैरात्मा यस्मात्तद् गोत्रम् 7 अष्टमकमन्तरायकं कर्म भवति / जीवं दानादिकं चान्तरा एति, न जीवस्य दानादिकं कतु ददातीत्यन्तरायम् , अन्तरायमेवान्तरायकम् / आर्षत्वाद् 25 यकारस्येकारः. 8 / मूलप्रकृतय एताः / अत्र च ज्ञानदर्शनरूपोऽयमात्मेत्यन्तरङ्गत्वादादावेव तदावरणोपादानम् / समानेऽपि चैतदन्तरङ्गत्वे ज्ञानोपयोगे एव सर्वलब्धीनामवाप्तिः / यदुक्तम्-"सव्वाओ लडीओ सागरोव उत्तस्स / " इति / अतो ज्ञानस्य प्राधान्यमिति तदाचरणस्य प्रथमतः / तदनु दर्शनावरणस्य / ततः केवलिनोऽप्येकविधबन्धकस्य सातवन्धोऽस्तीति व्यापित्वाद् वेदनीयस्य / ततोऽपि प्रायः संसारिणामिष्टानिष्टापत्तितो रागद्वेषौ, तद्रूपं च मोहनी