________________ कमणः शब्दव्युत्पत्ति पुरःसरं स्वरूपं भेदाश्च कारणेज 'इह' ग्रन्थे प्रवचने वा कर्म भग्यते / ननु क्रियत इति को, इत्यनया व्युत्पच्या सादि त्वापत्तिः, ततश्चायमर्थः प्रसजति-यदुत सर्वेऽपि जीवाः पूर्वमकर्माणः सन्तः पश्चात्कर्मणा युज्यन्ते, अकर्मणां च कर्मयोगे मुक्तानामपि कर्मयोगः प्रामोत्यकर्मत्वाविशेषात् , ततो मुक्ता अप्यमुक्ताः स्युः, इत्युक्तमनादि तत् / नन्वनादित्वेऽङ्गीक्रियमाणे पारिणामिकजीवत्वस्येव वियोगो न 5 प्राप्नोति, इत्यत उक्तम्-'प्रवाहेण' सन्तत्या पितृ पुत्री संतानवत् / अनादिरपि पितृपुत्रसंतानो व्यवच्छिद्यमानो दृष्टः / तथा च' सति प्राक्कृतं निर्जरयति विपाकोदयादिभिः, नवीनं चार्जयति मिथ्यात्वादिभिः / इति गाथार्थः // 2 // संप्रति मुकुलितस्यैव कर्मणश्चातूरूप्यमाह 'तस्स उ चउरो भेया, पगईमाईउ हुति नायब्वा। 'मोयगदिढतेणं, पगईभेओ इमो होइ' // 3 // (पू०) व्याख्या-'तस्य तु' पुनः कर्मणः प्राक्प्रतिपादितस्य चत्वारो मंदाः सामान्येन / के ते ? इत्याह-'प्रकृत्यादयः' प्रकृतिरादौ येषां ते प्रकृत्यादयः, आदिशब्दात्स्थित्यनुभागप्रदेशबन्धा गृह्यन्ते / भवन्ति 'ज्ञातव्याः ' अवबोद्धव्याः 'मोदकदृष्टान्तेन' लड्डुकोदाहरणेन, " तथाहि-लड्डुकस्य प्रकृतिः कणिकागुडादयः 1, स्थितिः सप्ताहपक्षादिका 2, अनुभाग इयता 15 भागेन कणिका, इयद्भागेन गुडः, इयच्च घृतं, शुण्ठ्यादि चैतत्परिमाणम् 3, प्रदेशो रसवीर्यविपाकः 4 / एवं कर्मणोऽपि, प्रकरणं प्रकृतिः प्रकृष्टा वा कृतिः प्रकृतिर्ज्ञानावरणीयादिलक्षणा 1 / स्थीयतेऽनयेति स्थितिरुत्कृष्टाद्या 2 / अनुरूपो भागः अनुभागः कर्मणामेव विभागेनानुभवनम् 3 / प्रकृष्टो देशः प्रदेशः, तेनानुभवः प्रदेशानुभवो जीवप्रदेशैः कर्मपुद्गलानामनुभवनम् / अयं लड्डुकदृष्टान्तार्थः, अनेन प्रकृतिभेदः 'इमो' अयं वक्ष्यमाणलक्षणः 'शृणुत' आकर्णयत 20 ययम् / तस्येति पाठान्तरं वा, तत्र 'तस्य' कर्मणः, शेषं पूर्ववत् / इति गाथार्थः // 3 // __ स च मूलप्रकृत्युत्तरप्रकृतिभेदाद् द्विधा, अत आह ___ (पारमा०) 'तस्य' पुनः कर्मणश्चत्वारो 'भेदाः' प्रकाराः प्रकृत्यादयः, मकारोऽलाक्षणिकः, प्रकृतिस्थित्यनुभागप्रदेशलक्षणा भवन्ति ज्ञातव्या / केन पुनर्निदर्शनेन ? इत्याह-'मोदकदृष्टान्तेन' तथाहि-वातापहारिद्रव्यजन्मा मोदकः प्रकृत्या वातमपहरति, पित्तापहर्तृ द्रव्य- 25 निष्पन्नः पित्तम् , श्लेष्मापनायकद्रव्यकृतः श्लेष्माणामिति / स्थित्या तु स एव कश्चिदिनमेकमवतिष्ठते, अन्यस्तु दिनद्वयम् , इतरस्तु दिनत्रयम् , यावन्मासादिकमपि कश्चिदवतिष्ठते, ततः परं विनश्यतीति / अनुभागेनापि स्निग्धमधुरत्वलक्षणेन स एव कश्चिदेकगुणानुभागः, अपरस्तु द्विगुणानुभागः, अन्यस्तु त्रिगुणानुभाग इत्यादि / प्रदेशाः कणिक्कादिद्रव्यरूपाः, तेः स एव 1 "पि" इत्यपि। 2 तरस उ गाहा / तस्य पुनःकर्मणः जे० / 3 व्याख्याकारेण तु "इमो सुणह” इति पाठानुसारेण व्याख्यातम।४ यथाहि जे०।