________________ कर्मविपाको प्रयमे कर्मग्रन्थे कर्मविपाकं वक्ष्ये, इत्यनेनाभिधेयाभिधानम् / गुरूपदिष्टम् , इत्यनेन गुरुपर्वक्रमलक्षणमंबन्धाभिधायिना स्वमनीषिकापरिहारोपदर्शनम् / यथा सुधर्मस्वामिना जम्बूस्वामिनः / इत्यादिक्रमेण यावन्मद् रुणा ममोपदिष्ट, न तु स्वबुद्धिवैभवोद्भावितमिति / 'समासेन' संक्षेपेण, इत्यनेन संक्षेपरुचिश्रोतृप्रवर्तनम् / नमस्कारश्च चतुरतिशयोपेतस्य भवति, ते चेत्थमत्र भावनीयाः / 5 तथाहि-आद्यपदेनापायागमातिशयः प्रतिपादितः / अपायभूतानि हि घातिकर्माणि, तत्प्रक्षये च ज्ञानातिशयोऽवश्यंभावी, स च कर्मगतिकुशलं, इत्यनेनोक्तः / तद्वतश्च प्रायेण वचनातिशयः स्फुट एव / एतदुपेतश्च भवत्येव देवदानवमानवमाननीयः, इति वचनातिशयपूजातिशयावाक्षिप्तो, इति चतुरतिशयोपेतत्वम् / इति गाथार्थः // 1 // 'कमविपकिं वक्ष्ये' इत्युक्तम् , अतः कर्मणः शब्दव्युत्पत्तिप्रतिपादनपुरःसरं स्वरूपं .. निरूपयति 'कीरइ जओ जिएणं, मिच्छत्ताई हिँ चउगहगएणं / तेणिह भण्णइ कम्म. अणाइयं तं पवाहेणं // 2 // (पू०) अस्या व्याख्या-'क्रियते' निष्पाद्यते 'यतः' यस्मात्कारणात् 'जीवेन' प्राणिना, कैः ? 'मिथ्यात्वादिभिः' मिथ्यात्वमादिर्येषां ते मिथ्यात्वादयः / तत्र मिथ्यात्व- 15 मतत्त्वेषु तत्त्वाभिनिवेशः / आदिशब्दादविरतिप्रमादकषायाज्ञानादयो गृह्यन्ते / क (केन) क्रियते ? 'चतुर्गतिगतेन' नारकतिर्यङ्नरामरभवान्तर्गतेन, 'तेन' कारणेन 'इह' प्रवचने लोके वा 'भण्यते' उच्यते कर्म / न विद्यते आदिर्यस्य तदनादि, अनायेवानादिकम् / स्वार्थे कः / 'प्रवाहेण' सन्तत्या एकभवापेक्षया सा.द, प्रवाहापेक्षया पुनरनादि / यदि प्रवाहापेक्षयाऽपि सादि स्यात्तदा जीवानां पूर्व कर्मवियुक्तत्वमासीत् , पश्चादकर्मकस्य जीवस्य कर्मणा सह संयोगः 20 सञ्जातः, एवं च सति मुक्तानामपि कर्मयोगः स्यात् , अकर्मकत्वा विशेषत्वात्ततश्च मुक्ता अमुक्ताः स्युः / न चेदं कस्यचिदिष्टम् , इष्टौ वा प्रत्यक्षागमविरोधस्तस्मात्स्थितमेतत्-अनादिर्जीवस्य कर्मणा सह संयोगः। नन्वनादिसंयोगे कथं वियोगः कर्मणा जीवस्य स ? उच्यते, अनादिसंयोगेऽपि वियोगो दृष्टः, सुवर्णोपलवत् / तथाहि-सुवर्णे पाषाणानां यद्यप्य नादिः संयोगस्तथाऽपि तथाविधनरे(रसे)न्द्रादिसद्भावे धमनादिना किट्टवियोगो दृष्टः / एवं जीवस्याप्यनादिकर्म- 25 योगयुक्तस्य ज्ञानदर्शनचारित्रध्यानानलादिभिर्वियोगः सिद्धः / इति गाथार्थः // 2 // प्रागभिहितस्यैव कर्मणः स्वरूपभेदा नाह (पारमा०) 'क्रियते' निष्पाद्यते 'यतः' यस्मात् 'जीवेन' प्राणिना 'मिथ्यात्वा- . दिभिः' मिथ्यात्वाविरतिकषाययोगः 'चतुर्गतिगतेन' नारकतिर्यग्नरामरस्थेन / 'तेन' 1 कीरइ गाहा अस्य व्या० जे० / 2 विशेषात्ततश्च जे० / 3 प्यनादिसंयोग जे० / 4 भेदमाह-।