________________ मद्गलादिचतुष्टयम् ननु गमर्गत्यर्थत्वात्कथ नभावार्थः स्यात् ? उच्यते, विअपपूर्वो गमिः स्वभावात् अनेकार्थत्वाद्वा * धातूनामभावाथोऽपि दृष्टः / तथा-'कर्मगनिकुशल' इति कर्मणां गतिः परिच्छित्तिः, तत्परि णामो वा कर्मगतिः, तत्र कुशलो निपुणः सर्वथा तत्परिच्छेदकः / तं नत्वा वक्ष्ये 'कर्मविपाक' कर्मणां विपाकोऽनुभवः कविपाकस्तम् / कथंभूतम् ? 'गुरूपदिष्टं' गुरुभिरुपदिष्टो गुरूपदिष्टो 5 गुरुकथितस्तम् / कथं वक्ष्ये ? 'समासेन' संक्षेपेण, इति गाथाऽक्षरार्थः / भावार्थस्त्वयम्-व्यपगतकर्मकलङ्ककम् , इत्यनेनापायापगमातिशय उक्तः / वीरं नत्वा, इत्यनेन स्तोतव्यसंपत्पूर्वको नमस्कारोऽभिहितः / कर्मगतिकुशलम् , अनेन तु स्तोतव्यस्यैव ज्ञानातिशयः प्रतिपादितः / कर्मविपाकम् , इत्यनेन त्वभिधेयम् / गुरूपदिष्टम् , पुनरनेनावयवेन शास्त्रस्य पारतन्त्र्यमाह गुरुपर्वक्रमलक्षणसंबन्धकम् / समासेन, इत्यनेन पुनः पदेन प्रयोजनाभिधानम् , 'व्यासाभिधा- 10 नारसमासाभिधानं प्रयोजनम्' इत्युक्तेः / कर्मविपाकाथोऽभिधेयः / अभिधानं तु इदमेव प्रकरणम् / अभिधानाभिधेयलक्षणश्च संबन्धः / इति गाथाभावार्थः 3 / पदविग्रहस्तु पदार्थ दर्शयद्भिर्दर्शित एव 4 / वीरमित्यनेनैव स्तोतव्यसंपदोऽभिहितत्वात् किमर्थं शेषपदोपन्यासः ? इति चालना 5 / प्रत्यवस्थानमाह-बीर इत्येतावन्मात्रे कृते 'नानाविधवीरप्रसङ्गः स्यात् / तद्वय दासार्थ व्यपगतकर्मकलङ्कमित्याह, तर्हि व्यपगतकर्मकलङ्कमित्येतदेवास्तु किं शेषपदैः ? इत्यत्राह- 15 कैश्चिद्वयपगतकर्मकलङ्कोऽप्यसर्वज्ञ इष्यते किञ्चिज्ज्ञत्वात् , तद्वयवच्छेदार्थ कर्मगतिकुशलं सर्वज्ञत्वाभिधायक पदमाह, तेन भाववीरं अशेषकल्मषध्वान्तरहितं सर्वशं सर्वदर्शिनमित्यभिहितं, भवति / ननु किमन्यैः कर्ममिपाको नाभिहितः येनाभिधीयते भवता कर्मविपाकः ? इत्यत्रोच्यते/ वि उक्तोऽन्यः, किन्तु व्यासेन, अत्र तु समासेन / इति गाथासमुदायार्थः॥१॥ क्रियत इति कर्म, इमां व्युत्पत्तिमाश्रित्य कर्मशब्दप्रवृत्तिः, जीवस्य च कर्मणा सार्द्ध मना- 20 दिसंयोगोऽभिधीयते तत्कथमिदमविरोधि ? इत्याह (पारमा०) तत्र 'वोरमिति' विशेष्यम् / तं 'नत्वा कर्मविपाकं वश्ये' इति संबन्धः / .. शेषतीर्थकृतामपि भावमङ्गलत्वे साधारणे सत्यासन्नोपकारित्वादस्य नमस्कारः / कीदृशं वीरम् ? कर्माण्येव जीवचन्द्रमसः स्वभावशुद्धस्य कलुषत्वापादनेन कलङ्कः, स व्यपगतोऽस्येति व्यपगतकर्मकलङ्कः / एतेन घातिकमविलयनप्रतिपादनेन भगवतः स्वस्वरूपापत्तिरुक्ता, अत एव 25 'कर्मगतिकुशलमिति' विशेषणं सुघटम् / कर्मणां गतिः परिणतिः, तत्र कुशलं विज्ञम् / नहि विमलकेवलं विना कोऽपि कर्मगतिं परिच्छेत्तुमलम् / यदुक्तम्-"जीवाण गई कम्माण परिणई पुग्गलाण परियहो / मुत्तण जिणं तह जिण-मयं च को जाणिलं तरह" ? // 1 // एवं च शास्त्रादौ भावमङ्गलं नमस्कारं कुर्वता व्याख्यानान्यपि सूचितानि / तथाहि 1 नामादिवी' प्रसङ्गः जे० / 2 षसङ्गरहितं जे० / 3 मनादिः सं० जे० /