________________ 2] ____ कर्मविपाकाख्ये प्रथमे कर्मग्रन्थे (श्रीमत्परमानन्दमूरिविरचितवृत्तिः) निःशेषकर्मोदयभेघजालमुक्ती दिनाधीश योग्रतेजाः / लो प्रदर्शिताशेषपदार्थसार्थो, मुदेऽस्तु नः श्रीजिनवर्द्धमानः // 1 // इह हि सन्तः संसारसागरतरणतरणिकल्पं जिनशासनमवाप्य सकलजन्मजीवितसारं परोप- 5 कारं मन्यन्ते / स च संसारिणां सकलामङ्गलनिलयकर्मस्वरूपनिरूपणात्तदुन्मूलनप्रवृत्तानां सिद्धो भवतीत्यतस्तत्स्वरूपनिरूपणप्रवां प्रकरणं चिकीर्षु गर्गमहर्षिर्मङ्गलाभिधेयसंबन्धाभिधानबन्धुरा गाथामाह ववगयकम्मकलंकं वीरं नमिऊण कम्मगइकुमलं / 'वोच्छं कम्मविवागं, गुरूवइट्ठ समासेणं // 1 // .. 1 (पू०) अस्या व्याख्या-सा च संहितादिक्रमेण-"संहिता च पदं चैव, पदार्थः पदविग्रहः / चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा" // 1 // तत्रास्खलितपदोच्चारणं संहिता / सा चेयम्-व्यपगतकर्मकलङ्क, वीरं नत्वा कर्मगतिकुशलं / वक्ष्ये कर्मविपाकं, गुरूपदिष्ट समासेन / 11 पदानि पुनः सैव संहिता विच्छेदेनोच्चार्यमाणा 2 / . पदार्थस्त्वयम्-घोरं नत्वा वक्ष्ये कर्मविपाकम् इति क्रियाकारकसंबन्धः। विरजनाद्वीरः / विपूर्व- 15 : स्य 'राजू दोतो' इत्यस्य धातोः औणादिड व्प्रत्ययान्तरय "अन्येषामपि" इति दीर्घत्वे वीर इति रूपम् / तस्यार्थः-विराजते शोभते प्रकाशते वावीरः / शूर वीर विक्रान्तौ" इत्यस्य वा / तत्रार्थः-महाविक्रान्तोऽपरवादिशत्रुजयात् , परीपहाद्यक्षोभ्यत्वाद्वा। ईर गतिप्रेरणयोः' इत्यस्य वा विपूर्वस्याच्प्रत्यये रूपम् / तस्य पुनरयमर्थः-विशेषेण ईरयति कर्म गमयति याति वा शिवमिति कृत्वा वीरः, गौणं नाम भगतः / अर्थव्युत्पत्त्यनुसारेणान्येऽप्यर्थाः सन्ति, अतस्तेऽप्यवबोद्ध- 20 व्याः / तथा चोक्तम्-"विदारयति यत्कर्म, तपसा च विराजते / तपोवीर्येण युक्तश्व. तस्माद्वोर इति स्मृतः ॥१॥"'णम् प्रत्वे शब्दे [चइत्यस्य धातोः क्त्वान्तस्य नत्वेति रूपम् / 'नत्वा' प्रणम्य “वाच्छं' वक्ष्ये अभिधास्ये, किं श्रुतं वीरम् ? इत्याह-व्यपगतकर्म- भू कलङ्क वि-अप-पूर्वस्य गमेः क्तान्तस्य व्यपगतमिति रूपम् / कर्मैव कलङ्क कर्मकलङ्कम् / यदा प्रथमातत्पुरुषस्तदाऽयमर्थः-कलङ्क दूषणं जीवस्वभावस्य कर्मैवाशुभपरिणामपरिणतं कलङ्क 25 कर्मकलङ्कम् / विशदो विशेषार्थः, अपशब्दोऽभावार्थः, विशेषेणापगतं कर्मकलङ्क यस्यासौ व्यपगतकर्म करकोऽन्याहार्थः, अतस्तम् / यदा पुनईन्द्रः, कर्म च कलङ्क च कर्मकलङ्क, तदा कर्म ज्ञानावरणीयादि प्रतीतं, कलङ्क वाद्याभ्यन्तरभेइभिन्नम् / तत्र बाह्यमकीर्त्यादि, आभ्यन्तर- . मशुभाध्यवसायादि / ते [ विरोषेण ] अपगते अतीते यस्यासौ व्यपगतकर्मकलङ्कः, अतस्तम् / ___ 1 बोच्छं जे० / 20 न्तः कषायशत्रु० जे० / 3 णम प्रहृत्वे शब्दे अय घातोः जे० / 4 बोच्छं जे। .