________________ 46] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे __(यशो०) अप्रमत्तेप्रमतसंयते मनश्चतुष्कं वाक्चतुष्कमाहारकौदारिकवैक्रियाश्चेत्येकादश / इह कार्मणौदारिकमिश्राभावः पूर्ववत् / वैक्रियमिश्रा ऽऽहारकमिश्रयोस्त्वऽभावोऽप्रमत्तत्वादेव / तथा ह्य तौ वैक्रियाहारकयोरारम्यमाणयोस्त्यज्यमानयोर्वा प्राप्यते / तत्रारम्भकाले लब्धेरुपजीवनौत्सुक्यात्यागकाले च त्यागौत्सुक्यान्नाप्रमत्तत्वम् / आरम्मत्यागकालान्तराले चौत्सुक्याभावा. दप्रमत्तताऽपीत्यप्रमत्तस्याऽपि वेक्रियाहारकावुक्तौ / फेश्चित्तु सर्वथा नोक्तौ, अप्रमत्तस्य लब्धेरनुपजीवनात् / अपूर्वादिषु-निवृत्त्यादिषु पञ्चसु क्षीणामोहान्तेष्वित्यर्थः, नवौदारिककायमनश्चतुष्टयवाक्चतुष्टयलक्षणाः / इहौदारिकमिश्रकार्मणाभावः प्रागिव / अतिविशुद्धत्वादेव बैंक्रियाहारककरणासम्भवाद्वैक्रियस्याहारकद्विकस्य चाभावः // 6 // संप्रति योगसमर्थनापुरस्सरमुपयोगप्रस्तावनामाह चरमाइममणवइदुगकम्मुरलदुगन्ति जोगिणो सत्त / गयजोगो य अजोगी वोच्छमओ बारसुवओगे // 69 // (यशो०) चरममसत्यामुषमादिमं च सत्यं मन इति द्विकमेवं चरमादिमा च वागिति द्विकं कार्मणमौदारिकद्विकं चेति सप्त योगिनः-सयोगिकेवलिनः / तत्र मनोद्विकं दवीयोदेशव्यवस्थितमनःपर्ययज्ञानिप्रभृतिषु द्रव्यमनोव्यापारणाद् , वाग्द्विकं देशनादौं, कार्मणौदारिकमिश्रयोगौ यथाक्रमं तृतीय-चतुर्थ-पञ्चमसमयेषु द्वितीय-पष्ट-सप्तमसमयेषु च समुद्घाते वाच्यौ, औदारिकः प्रतीतः / अयोगी च गतयोगोऽपगतयोगः / अतो-योगचिन्तानन्तरमुपयोगान्वक्ष्ये, 'गुणस्थानेष्वि'ति प्रकृतम् 'द्वादशे' ति स्वरूपपरम् / / 6 / / तानेवाह अच्चक्खुचक्खुदंसणमन्नाणतिगं च मिच्छमासाणे।। अविरयसम्मे देसे तिनाणदंसणतिगं ति छ उ // 70 // (यशो०) कर्मप्रकृतिमतेनाऽवधिदर्शनाऽनङ्गीकारादचक्षुर्दर्शनं चक्षुर्दर्शनमज्ञानत्रिकं चेति पञ्च वचनव्यत्ययान्मिथ्यात्वसास्वादनयोः। शेषास्तु सम्यक्त्वाविनाभाविन इत्यनयोने भवन्ति / अविरतसम्यग्दृष्टौ चशब्दलोपादेकदेशे समुपायोपचाराच्च देशविरते च त्रीण्याद्यानि ज्ञानानि दर्शनानि चेति षट् / अज्ञानत्रिकं मिथ्यात्वाविनाभावि मनःपर्यवज्ञानकेवलद्विकं च चारित्राव्यभिचारीत्यनयोन भवन्ति // 7 // मीसे तिच्चिय मीसा सत्त पमत्ताइसु समणनाणा। केवलियनाणदंमणउवओगा जोगजोगीसु // 7 //