________________ गुणस्थानेषु योगा उपयोगा लेश्या-मतान्तराणि च [ 47 (यशो०) मिश्रे मिश्रदृष्टौ त एव प्राचिनाः षट् मिश्रा अज्ञानेनेति शेषः / अत्र भावार्थों "मीसे अनाणमीसं तं इत्यत्र योऽभिहितः स एवानुसर्तव्यः / शेषोपयोगाभावः पूर्ववत् / प्रमत्तादिषु सयोग्यऽयोगिनोः पार्थक्येन चिन्तनात क्षीणमोहान्तेषु इत्यनुवृत्तमतिज्ञानादयः पट् सह मनोज्ञानेन-मनःपर्यवज्ञानेनेति सप्त / शेपाभावः प्रतीतः / केवलज्ञानदर्शनोपयोगौ सयोग्ययोगिनोः, अत्र केवलद्विकस्य शेषोपयोगाऽपायेनैव भावाच्छेपाभावः // 71 / / साम्प्रतमागममाम्नातानामपि केपांचिदर्थानामत्रानधिकृतत्वमाहमामणभावे नाणं विउविगाऽऽहाग्गे उरलमिस्सं / नेगिंदिसु 'सासाणोत्ति नेहहिगयं सुयमयंपि // 72 // (यशो०) सास्वादनत्वे सति ज्ञान-मत्यादि श्रुतमतमपि सास्वादनो हि किल सम्यग्दृष्टिः सम्यग्दृष्टेश्च ज्ञानमेवेति सैद्धान्तिकः प्रज्ञापनादिभिः आश्रितमपि नात्र प्रकरणेऽधिकृत मम्युपगतमपि त्वज्ञानमेवेति योगः / कार्मग्रन्थिका-(ऽङ्गी)कृतस्यैवेहाश्रितत्वादिति भावः / कार्मग्रन्थिकैर्हि कर्मप्रकृत्यनुसारिभिः सास्वादनभावेऽनन्तानुबन्ध्युदयाद्वाऽल्पकालभावित्वाद्वा ज्ञानं न विवक्षितम् / वचनव्यत्ययाद्वैक्रियाहारकयोस्त्यज्यमानयोरौदारिकमिश्रंशरीरं श्रुतमतमपि नाधिकृतमित्यत्रापि योगः / सिद्धान्ते हि प्रज्ञापनादौ (वैक्रि)यलब्धिमतां बादरवायुतिर्यग्मनुष्याणां वैक्रियस्याऽऽरम्भकाले वैक्रियमिश्रकाययोगस्त्यागकाले पुनरसा औदारिकमिश्र उक्तः / आहारकस्याप्याऽऽरम्भकाल आहारकमिश्रः त्यागकाले पुनरौदारिकमिश्रोऽभिहितः / इह तु कार्मग्रन्थिकाशयाश्रयणाद्वैक्रियाहारकयोरारम्भकाल इव त्यागकालेऽपि वैक्रियमिश्राहारकमिश्रावुक्तावित्यर्थः / तथैकेन्द्रियेषु न सास्वादन इति यत् श्रुतमतं तदप्यत्र नाधिकृतमित्यत्रापि योगः। अयं चार्थः “पढमगुणा दो बायर" इत्यत्र निर्णीतः // 72 // अथ गुणस्थानेष्वेव लेश्याः प्रतिपादयतिलेसा तिनि पमत्तं तेऊ पम्हा य अप्पमत्ता। सुक्का जाव सजोगी निरूद्धलेसो अजोगित्ति // 73 // (यशो०) आद्यस्तिस्रो लेश्याः प्रमत्ते प्रमत्तगुणस्थानेऽन्तस्तत्र सद्भाव उत्तरत्राभावरूपो व्यवच्छेद आसामिति। प्रमत्तान्ताः प्रमत्तं यावत्पडपि, तदृषं तूत्तरास्तिस्र इत्यर्थः / यथा च प्रमत्तयतेविशुद्धस्या-ऽप्यविशुद्धमाद्यलेश्यात्रयं भवति / तथा 'गइयाइसु छावि सेसेस्वि" त्यत्रोक्तम् / एवं तेजसीप। अप्रमत्तान्ते / अप्रमते-ऽन्त्यास्तिस्र इत्यर्थः / निवृत्तिगुणस्थानमादितः कृत्वा सयोगिकेवलिनं यावच्छुक्ला, अयोगी तु व्यवच्छिन्नलेश्यः, लेश्योच्छेद एवा-ऽयोगित्वप्राप्तः / 1 "सासाणो नेहाहिगयं" इत्यपि पाठः /