________________ 44] पडशीतिनाम्नि चतुर्थ कर्मग्रन्थे परिच्छिन्नं द्वितीयं सागरोपमकोटीकोटिद्वयावच्छिन्नं तृतीयं चारकं यावन्न भवन्ति / यः पुनरुत्सरिडण्याश्चतुर्थारकस्यादाववसण्यिास्तृतीयारकस्य पर्यन्ते कियन्तमपि कालं उभयेषामपि सद्भावः सोऽल्पकालत्वेन न विवक्षित इति न तेन न्यूनता उत्कृष्टविरहकालस्य / उपशान्तमोहा उपशमश्रेणिवर्तिनश्चोत्कृष्टतो वर्षपृथत्यवं यावन्न भवन्ति / एवमाहारकमिश्रयोगोऽपि / प्रयोजनाभावनाहारकशरीरस्या-ऽऽरम्भाभावेनाहारकमिश्राभावात् / “आहाराई लोए छम्सासं जा न हुन्ति उ कयाई ति प्रज्ञापनावचनं तु मतान्तरेण / एतेषां च मिश्रादीनां यथावसरमुत्तरत्रापि कादाचित्कत्वं भावनीयम् / मिश्रेभ्यः क्षायोपशमिकभाजोऽसंख्यातगुणाः / एते हि सर्वदेवा-ऽसंख्यातगुणाः प्राप्यन्ते / मिश्रास्तु कदाचिदेव, कादाचित्कत्वं त्वनन्तरमेव प्रत्यपादि / वेद्यन्ते ऽनुभूयन्ते शुद्धसम्यक्त्वपुञ्जपुद्गला अस्मिन्निति वेदकंक्षायोपशमिकमुपचारात्तु तद्वन्त उक्ताः / एवं क्षायिकशब्देन क्षाथिकवन्तो मन्तव्यास्ततः क्षायोपशमिकवद्भ्यः क्षायिका अनन्तगुणाः / सिद्धानामपि क्षेपात् / क्षायिकवद्भ्यो मिथ्यादृष्टयोऽनन्तगुणाः / एते ह्यनन्तास्तून्सपिण्यवसपिणीषु यावन्तः समयास्तावत्प्रमाणाः / क्षायिकवन्तस्तु एकनिगोदजीवानामध्यनन्तभाग एव वर्तन्ते // 6 // सन्नी थोवा तत्तो अणन्तगुणिया असन्निणो 'हुन्ति / थोत्राणाहारजिया तदसंखगुणा सआहारा // 64 / / (यशो०) संज्ञिनो मनोविज्ञानान्वितास्ते च पर्याप्तपञ्चेन्द्रिया एवेत्यऽसंख्यातमात्रत्वेनाऽसंज्ञिभ्यः स्तोकाः / ततः संशिभ्योऽसंज्ञिनोऽनन्तगुणिताः, पृथिव्याद्यसंज्ञिपञ्चेन्द्रियान्तजन्तुव्यापित्वादसंज्ञित्वस्य / स्तोका आहारका-ऽपेक्षयाऽनाहारकजीवास्तेषां विग्रहगतिमापन्नानामनन्तानां सिद्धानां चाऽनन्तानां सद्भावादानन्त्येऽपि तेभ्योऽसंख्यातगुणास्तदसंख्यातगुणाः, के ? सहाहारेण वर्तन्ते इति साहारा आहारका इत्यर्थः / अनाहारका हि एकस्यापि निगोद स्यासंख्येयभागवर्तिनोऽभिहिताः, अतोऽनाहरकेभ्योऽसंख्यातगुणा आहारकाः // 64 // ____ उक्त मार्गणास्थानगताभिषेयपदषट्कमिदानी गुणस्थानेषु जीवस्थानाधभिवेयपददशक प्ररूपयितुकामो जीवस्थानानि तावदाह मिच्छे सव्वे छ अपज्ज सन्निपज्जत्तगो य सासाणे। सम्मे दुविहो सन्नी सेसेसु सन्निपज्जत्तो // 65 // (यश०)मिथ्यात्वे सर्वाणि जीवस्थानानि / सर्वत्रेकेन्द्रियादौ मिथ्यात्वस्य सम्भवात् / सूक्ष१. "होति" इत्यपि पाठः।