________________ [ 43 मार्गणास्थानेष्वल्पबहुत्वम् स्पृशः, किन्तु केचिदेवा-ऽनन्तानुबन्ध्युदयादिति सास्वादनाः स्तोकाः / अत एवा.ऽमीभ्य ओपशमिकसम्यक्त्वभाज उपशमाः संख्यातगुणा उक्ताः / ते हि "अस्संखाउयतिरिया विमाणियो पढमपुढविनेरइया / मणुया य तिसंमत्ता वेयगउवसामगा सेसा॥" इत्युक्तेबहवः तृतीयनरके ऽपि कृष्णवन्नारकाणां क्षायिकसम्यक्त्ववतां सद्भावेन 'पढमपुढविनेरइयो' तिन व्यभिचारित्वम् , तेषां तद्वता कादाचित्कत्वेनाल्पत्वादविवक्षितया जीवसमासवृत्युक्तयेति / औपशमिकेभ्यो मिश्राः सम्यग्मिध्यादृशः संख्यातगुणाः। ते ह्यौपशमिकसम्यक्त्वभाग्भ्यो बहवो भवन्ति, यदा स्युः, मिश्रपरिणामस्य ह्य कस्मिन्नपि भवे एकस्यापि जीवस्य सर्वगतिष्वपि पुनः पुनः सम्भवः / औपशमिकं त्वनादिमिथ्यादृष्टीनां ग्रन्थिभेदे भवत्युपशमश्रेणी चाधिरोहतां कति. पयानामित्युपपन्नमौपशमिकसम्यक्त्ववद्भ्यो मिश्राणां संख्यातगुणत्वम् / कादाचित्कत्वं सास्वादनौपशमिकसम्यग्दृशोरपि समानम् / यदबोचाम"अप्पज्जत्तमणुस्सा वेउव्यिय मिस्तमीसन्दिट्ठी य / तह सुहुमसम्पराया परिहारियछेयचारित्ता / अप्पुवकरणअणियट्टिबायरा तहुवसन्तमोहा य / आहारगमिस्सोवि य सासणदिट्ठी य भयणिजा।।" इत्येते एकादशापि "भयणिज्ने" ति कदाचिद्भवन्ति, कदाचिन्नेत्यर्थः / तथाहिपर्याप्ता अपर्याप्ताश्च गर्भजमनुजाः सदाभाविन इति लब्धितः करणतश्चा-ऽपर्याप्ताः सम्मूछेजा मनुजा अपर्याप्तमनुष्या मिश्राः सास्वादनाश्चैते त्रयः सर्वस्मिल्लोके कदाचित्पल्योपमाऽसंख्येयभागं यावन्न भवन्ति / नरकदेवगतो द्वादश मूहूर्त्ता उत्पादविरहकाल उक्त इति नारकदेवानामुत्पत्तिसमयभाविनो वैकियशरीरानिष्पत्तौ वैक्रियमिश्रयोगाः कादाचित्काः / एतच्छेपयोगास्तु सदाभाविनः / लब्धिप्रत्ययतिर्यग्मनुष्यवैक्रियमिश्रयोगाः पुनरिह न विवक्षिताः / सूक्ष्मसम्पराया उत्कृष्टतः षण्मासान्यावन्न भवतीति कादाचित्काः / यतः क्षपकश्रेणि षण्मासान्यावन्न कोऽपि कदाचित्प्रतिपद्यते / एवमपूर्वकरणा-ऽनिवृत्तिबादराणामिहोक्तानामनुक्तानां च क्षपकश्रेण्यारम्भक्षीणमोहायोगिनामप्युत्कृष्टमन्तरं वाच्यम् / मिथ्यादृष्टय-ऽविरतदेशविरतप्रमत्ताऽप्रमत्तसयोगिनां सदैव लोके सद्भावेन च विरहकालासम्भवः / पारिहारिका अवसप्पिण्यामादित एव एकविंशतिवर्षसहस्रप्रमाणं पञ्चकं षष्टं चारकं उत्सपिण्यां तावत्प्रमाणं प्रथमं द्वितीयं चारकं यावद्भरतैरावतेषु जघन्यतो न भवन्ति / छेदोपस्थानीयचारित्रिणोऽवसपिण्या उक्तप्रमाणं पष्ठमरकमुत्सप्पिण्या उक्तप्रमाणं प्रथमं द्वितीयं चारकं यावद् भरतैरावतेषु जघन्यतो न भवन्ति / उभयेपि पारिहारिकाः च्छेदोपस्थापनीयचारित्रिणश्चाष्टादशसागरोपमकोटीकोटीर्यावन्न प्राप्यन्ते / उत्सप्पिण्या आदित एव सागरोपमकोटीकोटिद्वयप्रमाणं चतुर्थ सागरोपमकोटीकोटित्रयमानं पञ्चमं सागरोपमकोटीकोटिचतुष्टयप्रमितं षष्ठं चारकं यावन्न भवन्ति, अवसपिण्यामपि सागरोपमकोटीकोटिचतुष्कप्रमाणं प्रथमं - सागरोपमकोटीकोटित्रय