________________ 43 ] पडशीतिनाम्नि चतुर्थे कर्मग्रन्थे च ब्रह्मलोकदेवानां पद्माया भावात् / अधस्तना हि यथाक्रमं वैमानिका बहवः / ततस्तेजोलेश्यावन्तः संख्यातगुणाः, ज्योतिष्क-सौधर्मशानवासिदेवानां कतिपयसनत्कुमारवासिदेवभवनपतिव्यन्तरसंख्याता-ऽसंख्यातायुर्गर्भजनरतियंगपर्याप्तवादरपृथिव्यप्प्रत्येकवनस्पतिकायानां तेजस्याः सम्भवात् / ततः कापोतलेश्यावन्तोऽनन्तगुणाः, कतिपयतृतीयनरकनारकभवनपतिव्यन्तरसम्मुर्छजसंख्यातासंख्यातायुनरतिर्यगपर्याप्तपर्याप्तपथिव्युदक तेजोवायुप्रत्येकाऽनन्तवनस्पतिविकलेन्द्रिया-ऽसंज्ञिपञ्चेन्द्रियाणामाद्यद्वितीयनरकनारकाणां च सर्वेषां कापोत्याः सम्भवात् / ततो नीललेश्यावन्तो विशेषाधिकाः / ततोऽपि कृष्णलेश्यावन्तः / कथमेतद्यावता-ऽनन्तराभिहितनरकनारकवर्जेष्वेव कापोत लेश्यावत्सु नीलकृष्णलेश्ये प्राप्येते, यस्तु कतिपयतृतीयपश्चमनरकनारकेषु चतुर्थनरकनारकेषु च नीललेश्या कतिपयपञ्चमनरकनारकेषु षष्ठसप्तमनरकनारकेषु च कृष्णलेश्येति विशेषः, स प्रत्युताधिकत्वप्रतिकूलः,अधस्तनाधस्तननरकवासिनो हि नारकाः स्तोकाः, सत्यम् , किन्तु येषु प्रथमं लेश्यात्रयं प्राप्यते तेषु कापोतलेश्यावद्भ्यः संक्लिष्टत्वेन नीललेश्यावन्तः किंचदधिकास्तेभ्योप्यतिसंविलष्टत्वेन कृष्णलेश्यावन्तः / यदुक्तम्-एकेन्द्रियानाश्रित्य भगवतीसप्तदशशतकद्वादशोद्देशके-"गोयमा सव्वत्थोवा एगिन्दिया तेउलेसा काउलेसा अणन्तगुणा नीललेसा विसेसाहिया किण्हलेसा विसेसाहिये"ति // // 61 // थोवा जहन्नजुत्ताणतयतुल्लत्ति इह अभव्वजिया / तेहितोऽणन्तगुणा भव्वा निव्वाणगमणऽरिहा // 62 // (यशो०) स्तोका इह संसारे-ऽभव्यजीवाः / किंप्रमाणाः ? जघन्यं च तद्युक्तानन्तकं च तेन तुल्याः। परित्तयुक्तनिजपदोपाधिवशाद्धि त्रिविधमप्यऽनन्तकं जघन्यमध्यमोत्कृष्टभेदान्नवविधम् / तच्च जीवसमास-सा शतकादिभ्योऽभ्यूह्यम् / इह तु विस्तारभिया नाविर्भाव्यते / तेम्योऽभव्येभ्योऽनन्तगुणा भव्याः / अभव्याः सिद्धानामनन्तभागे, भव्यास्तु सिद्धेभ्योऽप्यनन्तगुणा इति ह्यागममुद्रा / ते पुनः कीदृशाः, निर्वाणगमनमवश्यप्राप्यत्वेनार्हन्ति ये, त इह भव्याः,न पुनः सामग्गिअमावाओ ववहारगरासिअपवेसाओ / भव्यावि ते अणन्ता जे सिद्धिसुहं न पावेति // गाथोक्तस्वरूपा अपि // 62 // सासाणउवसमियमिस्सवेयगकखइगमिच्छदिट्ठीओ / थोवा दो संखगुणा असंखगुणिया अणन्ता दो॥६३॥ (यशो०) सास्वादना उत्कृष्टतः क्षेत्रपल्योपमासंख्येयभागवा-ऽऽकाशप्रदेशप्रमाणत्वेना- . ऽसंख्याता अपि औपशमिकाऽपेक्षया स्तोकाः / सास्वादनत्वं हि औपशमिकं त्यजतां मिथ्यात्वं चाप्राप्नुवतां प्राप्यते / तत्र यावन्त औपशामिकं प्राप्नुवन्ति न तावन्तः सर्वेऽपि सास्वादनत्व