________________ (41 मर्गा थानेष्वल्पबहुत्वम् सुहुमपरिहारअहखायछेयसामइयदेसजयअजया / थोवा संखेजगुणा चउरो अस्संखणन्तगुणा // 59 / / (यशो०) अत्र पदैकदेशे पदसमुदायोपचारात् सूक्ष्माः पूक्ष्मसम्परायाः स्तोकाः, उत्कृष्टतोऽपि शतपृथक्त्वमानत्वात्तेषाम् / पृथक्त्वं च द्विप्रभृतिरानवभ्यः संख्या / ततः परिहारे''ति परिहारिकाः संख्येयगुणास्ते पामुत्कृष्टतः सहस्रपृथक्त्वमानत्वात् / ततो यथाख्यातचारित्रिण उपशान्तमोह-क्षीणमोह-सयोगि-भवस्था-ऽयोगिनः संख्यातगुणाः / यत उपशान्तमोहक्षीणमोहानां मिलितानामुत्कृष्टतः शतपथक्त्वम् / एतच्च तु पञ्चादिशतरूपम् / यत्त्वग्रे केवलानां क्षीणमोहान शतपथक्त्वं वक्ष्यते, तद् द्वयादिशतरूपं मन्तव्यम् / सयोगिनां कोटिपृथक्त्वम् / भवस्थाऽयोगिनां अट्ठसयभेगसमयभो सिज्' इतिवचनाद् अष्टोत्तरं शतं प्राप्यते / एतेभ्यश्छेदोपस्थापनीय चारित्रिणः संख्यातगुणाः, तेषामुत्कृष्टतः कोटीशतपृथक्त्वमानत्वात् / ततः सामायिकचारित्रिणः संख्यातगुणाः, तेपामुत्कृष्टतः कोटीसहस्रपृथक्त्वमानत्वात् / ततो देशयता-देशविरता असंख्यातगुणाः, असंख्यातत्वाद्देशविरततिरश्चाम् / ततोऽयता आद्यगुणास्थानचतुष्कवर्तिनोऽनन्ताः, अनन्तकायिकप्रक्षेपात् // 56 // इय ओहिचक्खुकेवलअचक्खुदंसी कमेण विन्नेया / थोवा अस्संखगुणा अणन्तगुणिया अणन्तगुणा / / 60 // (यशो०) इत्यमुनोल्लेखेन विज्ञेया इति संटङ्कः / अवधिना चक्षुषा केवलेनाऽचक्षुषा च पश्यन्तीत्येवं शीला अबध्यादिदर्शिनोऽवधिदर्शनवदादयः। तत्रावधिदर्शिनः स्तोकाः, अवधिदर्शनस्य करणापर्याप्तपर्याप्तानां संज्ञिपञ्वेन्द्रियाणां केषांचिदेव भावात् / तेभ्यश्चक्षुर्दशनवन्तोऽसंख्यातगुणाः, केवलिबर्जसर्वपर्याप्तचतुरिन्द्रियपञ्चेन्द्रियव्यापकत्वाच्चक्षुर्दर्शनस्य / ततोऽनन्तगुणिताः केवलदर्शिनः, अनन्त-सिद्धकेवलिप्रक्षेपात् / ततोऽनन्तगुणा अचक्षुर्दर्शनिनः, सर्वे केवलिवर्जा एकेन्द्रियादयः, अनन्तगुणत्वमनन्तवनस्पतिप्रक्षेपात् / / 60 // सुक्का पम्हा तेऊ काऊ नीला य किण्हलेमा य / थोवा दो संखगुणाऽणन्तगुणा दो विसेमहिया // 61 // (यशो०) इह गुणगुणिनोरभेदात् शुक्लादिलेश्याशब्देन शुक्लादिलेश्यावन्तो ग्राह्याः / तत्र शुक्ललेश्यावन्तः स्तोकाः, असंख्याता अप्युत्तरापेक्षया कतिपयमहर्दिकब्रह्मलोकदेवसंख्यातायुगर्भज नरतिरश्चां तथा लान्तकाद्यनुत्तरान्तविमानवासिनामेव शुक्लायाः सद्भावात् / ततः पद्मले श्यावन्तः संख्यातगुणाः, कतिपयसनत्कुमारदेवसंख्यातायुगर्भजनरतिरश्चां माहेन्द्रदेवानां भूयसा