________________ 40 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे / प्रागिव / यद्यपि निगोदजीवानामनन्तानामप्ये कमौदारिकं वपुस्तथापि कार्मणापेक्षयानन्त. गुणत्वम् // 5 // पुरिसहिंतो इत्थी संखेजगुणा नपुसणन्तगुणा / माणी कोही मायी लोभी कमसो विसंसहिया // 56 // (यशो०) पुरुषेभ्यो देवगर्भजमनुजतिर्यविशेषरूपेभ्योऽसंख्यातेभ्यः स्त्रियो देवीनारीतिरश्च यः . संख्यातगुणाः / स्त्रीभ्यः पुरुषाः स्तोका इति तु सामर्थ्यलभ्यम् / उक्त च"तिगुणा तिरूवअहिया तिरियाणं इथिओ मुणेयव्वा / सत्तावीसगुणा पुण मणुयाणं तदहिया चेव / / बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं / देवीओ पन्नत्ता सुत्ते जीवाभिगमनामे // " नपुसकाः पूर्वोण्वर्णितस्त्रीपुरुषवर्जाः संसारिणोऽनन्ताः. आनन्त्यं प्राग्वत् / तथा मानिनः स्तोकास्ततः क्रोधिनो विशेषाधिकास्ततोमायिनस्ततो-ऽपि लोभिनः / यद्यप्यमी चत्वारोप्य मन्तवनस्पतिगतेन सामान्येनाऽनन्तास्तथापि कषायसत्तामात्रस्या-ऽविवक्षया तथाविधोपयोगरूपमिह कपायित्वमङ्गीकृतमितिस्वल्पकालत्वात् मानोपयोगस्य मानिनामल्पमनन्तत्वम् , ततःक्रोधादीनां यथाक्रमं बहुतरबहुतम कालत्वात् क्रोधमायालोभोपयोगानां विशेषाधिकमानन्त्यमवगन्तव्यम्। 56 // मणपजविणो थोवा ओहिन्नाणी तआं असंखगुणा / महसुयनाणी तत्तो विसेसअहिया समा दोवि // 57 // (यशो.)मनःपर्यवज्ञानिनःस्तोकाः-परिमिताः,मनः पर्यवज्ञानस्य विशुद्धिमच्चारित्रवतामेव भावात् / ततोऽवधिज्ञानिनोऽसंख्यातगुणाः, असंख्यातानां देवनारकाणां भवप्रत्ययस्य तिर्यग्मनुष्याणां सम्यग्दृशां गुणप्रत्य यस्यावधेः सद्भावात् / ततो मतिज्ञानिनः श्रुतज्ञानिनश्च विशेषाधिकाः, यतस्तेऽवधिज्ञानिनो-ऽपि मनःपर्यायज्ञानिनोप्यवध्यादिरहिता अपि पञ्चेन्द्रिया भवन्ति [परस्परपेक्षया भवन्ति / परस्परापेक्षया पुनरुभयेऽप्यमी तुल्या एव / अत एवोक्तं "समा दो वो'ति // 5 // विन्भंगिणो असंखा केवलनाणी तओ अणन्तगुणा / तत्तोऽणन्तगुणा दो मइसुयअन्नाणिणो तुल्ला / / 58 // (यशो०) तत इत्यनुवृत्या तेभ्यो मतिश्रुतज्ञानिभ्यो विभङ्गज्ञानिनोऽसंख्या असंख्याता मिध्यादृष्टिसुरादीनां विभङ्गभाजां सम्यग्दृष्टयपेक्षयाऽसंख्यातगुणत्वात् / ततोऽनन्तगुणाः केवलिनः, सिद्धकेवलिनामनन्तत्वात् / ततोऽनन्तगुणा मत्यज्ञानिनः श्रुताज्ञानिनश्च, अनन्तकायिकप्रक्षेपात् / सिद्धकेवलिनोऽपि हि एकस्यापि निगोदस्यानन्ततम एव भागे वर्तन्ते, परस्परममी उभयेऽपि तुल्या एव / तत एवोक्तं "तुल्ला" इति // 58 //