________________ मार्गणास्थानेषवल्पबहुत्वम् [ 36 अपरस्यां विशेषाधिकाः / पड्सप्ततिसमधिकयोजनसहस्रोचत्वेन द्वादशयोजनविष्कम्भेण लवणोदधिमध्यवर्तिना गोतमाभिधानद्वीपेन नवयोजनशतावगाहाधोलौकिकग्रामैश्च सहितावेतावधिकृत्य अपरस्यामापः स्तोकाश्चन्द्रसूर्यगोतमद्वीपानपेक्ष्य / पूर्वस्यां विशेषाधिकाः, यतश्चन्द्रसूर्यद्वीपयोरेव तत्र भावो न तु गौतमद्वीपस्य / याम्यायां चन्द्रसूर्यद्वीपाभावाद्विशेषाधिकाः / उदीच्यां तु पूर्वोपवर्णितमानससरःसद्भावेन तासां विशेषाधिकत्वम् / एवमुदीच्या मानसापेक्षया वनस्पति-द्वि-त्रि-चतुरिन्द्रिय-पञ्वेन्द्रियतिरश्चां पूर्वादिदिक्त्रयापेक्षया विशेषाधिकत्वकारणमन्वेषणीयम् / दक्षिणोत्तरयोस्तेजस्कायिकाः स्तोकाः / यतोऽत्र मनुजास्तत्र पाकारम्मेण बादरतेजस्कायानां सम्भव इति भातैरावतेषु मनुष्याणामल्पत्वात् सुषमादिप्वभावाच्च स्तोकास्ते / पुरस्ताद्विदेहवर्तिमनुजजनितपाकारम्भद्वारा संख्यातगुणाः / पश्चिमायामधोलौकिकप्रामान्तरीकृत्य विशेषाधिकाः / पूर्वस्यां वायवः स्तोकाः / यस्माद्यत्र शुषिरं तत्र वायुर्यत्र घनं तत्र नासावस्ति / अधोलौकिकयामापेक्षयाऽपरस्यां विशेषाधिकाः। उत्तरस्यां भवनछिद्रबहुत्वान् विशेषाधिकाः / दक्षिणस्यां भवनबहुत्वात् शुषिरबहुत्वमिति विशेषाधिकाः / बहुतरभवनछिद्रबहुत्वादेव / पूर्वस्यां स्तोका वनस्पतयः / इयमत्र भावना-इह सर्वबहवो वनस्पतय इति ते यत्र सन्ति तत्र तेषां बहुत्वम् / तेषां च तत्र बहुत्वं यत्राऽप्कायः, यत्राऽयं तत्र नियमेन वनस्पतिः पनकशेवलहढादिवोदरः / ततश्च द्वीपद्विगुणविष्कम्भेषु समुद्रेषु सलिलं बहु / प्राचीप्रतीच्योत्र चन्द्रसूर्यद्वीपाः सन्ति / यत्र च तेऽवगाढास्तत्रोदकाभावः, तदभावाच वनस्पत्यभाव इति प्राच्या स्तोका वनस्पतयः / प्रतीच्यां तु लवणसमुद्रे गौतमद्वीपोऽभ्यधिकस्तत्र च जलाभावादल्पतरा वनस्पतयः / याभ्यायां तु चन्द्रसूर्यद्विपाभावात्पूर्वतो विशेषाधिकाः / याम्यातोऽप्युदीच्यां मानससरोऽपेक्षया विशेषाधिकाः / मानसजलनिश्रया वनस्पतिवदुदीच्यां द्वित्रिचतुरिन्द्रियपश्चन्द्रियतिरश्वां दिक्त्रयाऽपेक्षया बहुत्वमुत्तरत्रोहनीयम् / एवं चैकेन्द्रियाः कायपञ्चकाव्यभिचारिण इत्येकेन्द्रियाणामल्पबहुत्वभावनयैव कायपश्चकाल्पबहुत्वमिहापि लाघवाथै निर्णीतमेवेति कायद्वारे कायपञ्चकस्या-ऽल्पबहुत्वगवेषणा न कार्याः। द्वि-त्रि-चतुरि न्द्रियाः पञ्चन्द्रियतिर्यश्वश्च प्रतीच्या स्तोकाः। पूर्वस्यां विशेषाधिकाः। दक्षिणस्यां विशेषाधिकाः / उत्तरस्यां विशेषाधिकाः। सुरनरनारकरूपाः पञ्चन्द्रियाः प्रागेवाल्यबहुत्वेन निर्णीता एव / कायद्वारे पृथिव्यादयो वनस्पत्यन्तास्त्रसाश्वाल्पबहुत्वेन चिन्तिता एवेति गतीन्द्रियकायेति द्वारत्रयमूरीकृत्य दिगपेक्षयाल्पबहुत्वचिन्ता कृतोपयोगित्वात् // 54 // मणवयणकायजोगी थोवअसंखगुणणन्तगुणा // 55 // (यशो०) मनोयोगिनो गर्भजतिर्यग्मनुष्या देवा नारकाच असंख्याता अपि स्तोकाः / ततो वाग्योगिनो द्वीन्द्रियादयोऽसंख्यातगुणाः / काययोगिनः सर्वे संसारिणोऽनन्तगुणाः / आनन्त्यं