SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 38] - षडशीतिनाम्नि चतुर्थे कर्मगन्थे प्रज्ञापनातृनोपपदार्थलेशः / वनस्पतयोऽनन्ता / आनन्त्यमनन्तकायिकापेक्षम् / दिग्विभारपेशं तु प्रज्ञापनातृतीयपदोपदर्शितम् / तं गत्यादिद्वारत्रयगोचरमल्पब हुन्वमेवम्-दक्षिणो. दीचीदिशोर्भरतैरावतादिलघुक्षेत्रवर्तितया नराः स्तोकाः। दक्षिणस्यामसंख्यातगुणाः। तस्या हि प्रसूतपापाः कृष्णपक्षिकास्तियश्चः प्रचुरा उत्पद्यन्त इते सप्तम्याम् / एवं पष्ठयादिषु रत्नप्र. भान्तासु नारका वाच्याः / पूर्वप्रतीच्योर्भवनानां स्तोकत्वात्तनिवासिनोपि देवाः स्तोकाः / उदीच्यामसंख्यातगुणाः / याम्यायां भवनबहुत्वादसंख्यातगुणाः / यतो निकाये निकाये चत्वारि चत्वारि शतसहसाण्यतिरिच्यन्ते / पूर्वस्यां व्यन्तराः स्तोकाः / यतो यत्र शुषिरं तत्र व्यन्तराः प्रचरन्ति, यत्र पुनर्घनं तत्र न प्रचरंतीति घनत्वात्पूर्वस्याममीषामुपपत्तिमती] (तेरतीव)स्तोकता / अधोलौकिकग्रामसद्भावादपरस्यां विशेषाधिकाः / तत एव च याम्यायां विशेषाधिकाः / प्राचिप्रतीच्योः स्तोका ज्योतिप्काः, यतश्चन्द्रसूर्यद्वीपेषूद्यानकल्पेषु तेषामल्पा राजधान्यः / विमानबहुत्वात्कृष्णपाक्षिकदक्षिणदिग्गामित्वाच्च दक्षिणस्यां विशेषाधिकाः / उदीच्यां विशेषाधिकाः / यस्मात्संख्येयासंख्येययोजनेभ्यो बहिर्दीपवर्तिनि विस्तरदीर्घत्वाभ्यां संख्यातयोजनकोटीकोटीके मानसाभिधाने सरसि बहून् ज्योतिष्कांस्तान् क्रीडनव्यावृताननवरतमवलोक्य मत्स्यादयो जलचराः संजातजातिस्मरा आसन्नविमानदर्शनकृतनिदानाः किंचद्वतं प्रतिपद्य कृतानशना ज्योतिष्केघृत्पद्यन्ते / वैमानिका आद्यकल्प चतुष्टयवासिनः पूर्वस्यामपरस्यां च स्तोकाः। यत आवलिकाप्रविष्टानि विमानानि चतसष्वपि दिक्ष तुल्यानि पुष्पावकीर्णानि तु दक्षिणस्यामुत्तरस्यां च बहून्यसंख्यातविस्तृतानि च ततः पूर्वापरयोः पुष्पावकीणविमानद्वारेणोदितदेवाः स्तोकाः / उत्तरस्यां पुष्पावकीर्णविमानबहूत्वेनासंख्येययोजनविस्तृतत्वेन च सौधर्मवासिनोऽसंख्यातगुणाः। दक्षिणस्यां विशेषाधिकाः, दक्षिणदिग्गामित्वाद् बहूनां कृष्णपाक्षिकजीवानाम् / ईशानवासिन उत्तरस्यामसंख्यातगुणाः। याम्यायां विशेषाधिकाः / सनत्कुमारवासिनोऽसंख्यातगुणा उत्तरस्याम् / विशेषाधिका याम्यायाम् / एतद्दिग्गामिनोहि बहव कृणपाक्षिकाः, स्वल्पाः शुक्लपाक्षिकाः / एवं महेन्द्रवासिनोऽपि / ब्रह्मलोकवासिनः पूर्वापरोत्तरासु स्तोकाः / शुक्लपाक्षिका हि अल्पा एता सूत्पद्यन्ते। उदीच्यामसंख्यातगुणाः / याम्यां त एव विशेषाधिकाः / प्रचुरकृष्णपाक्षिकतिरश्चा तत्रोत्पत्तेः / एवं सहस्रारं यावत् / आनतादिवासिनो बहुसमा मनुष्याणामेव हि तेषूत्पत्तिः / तिर्यश्च एकेन्द्रिय-विकलेन्द्रिय-पञ्चेन्द्रियविशेषरूपाः / अत एवैषामल्पबहुत्वमिन्द्रियकायद्वारयोर्वमः / तत्रेन्द्रियद्वारे पृथिव्यादयः सूक्ष्माः प्रायः सर्वत्र समा एवेति तानुपेक्ष्य बादरानाश्रित्याल्पबहुत्वमित्यम्-पृथिवीकायिका दक्षिणस्यां स्तोकाः / यतो यत्र घनं तत्र पृथिवी बहुर्यत्र शुषिरं तत्र स्तोका। ततोऽस्यां बहुतरा भवनावासाश्च शुषिरा इति स्तोकता तेषाम् / उदीच्या विशेषाधिकाः, भवनापासनरकावासस्तोकतया / प्राच्यां चन्द्रसूर्यद्वीपावधिकृत्य विशेषाधिकाः /
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy