SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ [37 मार्गणास्थानेषु लेश्या अल्पबहुत्यञ्च गइयाइसु अप्पबहु भणामि सामन्नओ सठाणे वि / नरनिग्यदेवतिरिया थोवा दुअसंखऽणतगुणा // 53 // (यशो०) गत्यादिषु विभागेन चतुर्दशसु विभागेन द्वापष्टिसंख्येषु मार्गणास्थानेष्वल्पबहुत्वमेतेऽल्पे एतेभ्य एते बहव इत्येवं रूपं "सठाणे वि' त्ति अपिरेवार्थे स्वस्थान एव स्वयमेव स्थानं भेदमपेक्ष्य सामान्यतोऽनपेक्षतया भवनपत्यादिगत्याद्यपेक्षं यथा भवति तथा वच्मि / तत्र नराः स्तोकाः, सर्वस्य संमूर्च्छजपर्याप्तापर्याप्तगर्मजभेदभाजो मनुष्यराशेरसंख्यातत्वेऽपि मनुजक्षेत्र एबोत्पत्तेः। नारकाद्यपेक्षया यदा तु गर्भजा एव नरा गृह्यन्ते तदा संख्याता एवेति स्तोकाः / एतेभ्यो नारकदेयौ द्वावसंख्यातो, नारका असंख्याता देवाश्था-संख्याता इत्यर्थः / अत्र नारकशब्दात्परेण देवशब्दोपपादान्नारकेभ्यो देवा भवनपतिव्यन्तरज्योतिष्क-वैमानिकरूपा असंख्याता इति दृश्यम् / एवमन्यत्रापि यथास्वं वाच्यम् / एतच्च “मइसुयभन्नागिणो तुल्ले" त्यादिवक्ष्यमाणोक्तौ तुल्यादिग्रहणाद् गम्यते / एतेभ्यस्तियश्चोऽनन्तगुणाः / आनन्त्यमत्रानन्तकायिकवनस्पत्यक्षया // 53 // पणउतिदुएगिन्दी थोवा तिन्नि अहिया अणन्तगुणा। तमतेउपुढविजलवाउहरियकाया पुण कमेणं // 54 // थोवा असंखगुणिया तिन्नि विसेसाहिया अणन्तगुणा / (यशो०) सूचकत्वात्सूत्रस्य ' इंदी'त्यनेन सूचितस्येन्द्रियस्य प्रत्येकमभिसम्बन्धात्पञ्चेन्द्रियाश्चतुरिन्द्रिया इत्यादि दृश्यम् , ततः पञ्चन्द्रिया असंख्याता अपि उत्तरापेक्षया स्तोकाः / एवमुत्तरत्रापि यथास्वं संख्याताऽसंख्यातानन्तोत्तरपदापेक्षया स्तोकत्वमुद्भाव्यम् / एम्यश्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रियास्रयेऽधिका विशेषाधिकाः / अत्रापि चतुरिन्द्रियेभ्यस्त्रीन्द्रिया विशेषाधिका इति निर्देशक्रमानुसारेण गम्यम् / एवमन्यत्रापि विशेषाधि. कत्वादि यथासम्भवं वाच्यम् / एकेन्द्रिया अनन्तगुणास्तेष्वनन्तवनस्पतिसद्भावात् / तथा सा द्वीन्द्रियाद्यास्त्रसनाडीमात्रान्तर्गतत्वेन स्तोकाः, ततस्तेजस्कायिका मनुष्यक्षेत्रभाविनो पादराः, सर्वलोकभाविनः मूक्ष्मा इत्यसंख्याताः / ततः पृथिवीकायिकास्ततोऽप्कायिकास्ततोऽपि वायुकायिका इति त्रयोऽप्यधिका = विशेषाधिकाः / यतो वादरपर्याप्ताग्निभ्यो वादरपर्याप्तपृथिव्यब्वायवः क्रमेणाऽसंख्याताः, ततोऽग्निपृथिवीजलवायव एव पादराऽपर्याप्ता असंख्याताः, ततः सूक्ष्माऽपर्याप्तास्तेजःकायिका असंख्याताः, ततः सूक्ष्मापर्याप्ताः पृथिवीजलवायवो विशेषाधिकाः, तेभ्यः सूक्ष्मपर्याप्ताग्नयोऽसंख्याताः, तेभ्यः सूक्ष्मपर्याप्तभूजलवायवो विशेषाधिका इति ..
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy