________________ 36] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे प्रथमाज्ञानद्विकमचक्षुर्दर्शनं चेत्युपयोगत्रिकम् , वैकियद्विकमौदारिकद्विकं कार्मणं चेति योगपञ्चकम् , मनोवर्जिते न तु कायविरहिते वाचः कायाव्यभिचारित्वाद्वाग्योगे प्रथमगुणस्थानद्वयम् , पर्याप्तापर्यामद्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियरूपाण्यष्टौ जीवस्थानानि, इह करणेनाऽपर्याप्तस्य वाग्योगो 'म विनि भूतवदुपचार" इतिन्यायात् , चारचक्षुदेशनमत्यज्ञानश्रुताज्ञानरूपा उपयोगाश्चत्वारः, औदारिकद्विकमसत्यमषाभाषा कार्मणमिति योगाश्चत्वारः / मनोयोगे त्रयोदश गुणस्थानानि अयोगगुणस्थानरहितानि, संज्ञिपर्याप्ताऽपर्याप्तरूपे द्वे जीवस्थाने, करणाऽ पर्याप्तस्य मनोयोगो भाविनि भूतवदुपचारात् , उपयोगा द्वादशापि, योगाः कार्मणौदारिकमिश्रवर्जास्रयोदशः / मनोयोगः, कायवाग्भ्यां विना न सम्भवतीति तत्सहचरितो गृहीतः / मनोयोगे च नानात्वं जीवस्थानेष्वेव शेषपदत्रयप्रतिपादनं प्रसङ्गात्कृतम् // 50 // ____ अथ लेश्यानामवसरस्तावोत्तरोत्तरविशुद्धिमत्त्वात्क्रमेण स्वरूपतः प्रागेव प्रदर्शिताः, केवलं मार्गणास्थानेषु योज्यन्ते लेसा उ तिन्नि पढमा नारगविगलग्गिवाउकाएसु। एगिदिभूतरूदगअमन्निसु पढमिया चउरो॥५१॥ (यशो०) नारकद्वित्रिचतुरिन्द्रियाग्निकायवायुकायेषु तित्र एव, अभ्यासामसम्भवात् / एकेन्द्रियादिके पदपश्चके प्रथमा एव प्रथमिकाश्चतस्रः / तत्र तिस्रः प्रतीताः, तेजसी पुनरीशानान्तजघन्यायुर्देवेभ्य उत्पन्नानां सुभपृथिवीवनस्पत्यप्कायानां करणापर्याप्ततानामवगन्तव्या / एतदपेक्षयैव च करणा ऽपर्याप्तकैकेद्रियासंज्ञिनोस्तेजसो प्रतिपादिता / शेपैकेन्द्रियशेषासंज्ञिनोस्तु मध्ये देवानामुत्पाद एव नास्ति / / 51 // केवलजुयलअहक्खायसुहुमरागेस मुक्कलेंसेव। . लेसासु छमु सठाणं गइयाइमु छावि सेसेमु // 5 // (यशो०) केवलज्ञान-केवलदर्शनयोर्यथाख्याते सूक्ष्मरागे-सूक्ष्मसम्पराये च शुक्लालेश्यैव, .. अन्यासां व्यविच्छिनत्वात् / लेश्यासु षट्सु स्वस्थानं स्वकीयं स्थानं कृष्णायां कृष्णा नीलायां नी. लेत्यादि / शेषेषक्तोद्धरितेषु गत्यादिवेकचत्वारिशति पदेषु षडपि / इह चैकैकस्या अपि लेश्यायाः परिणामतारतम्येनाऽसंख्येया भेदा इति विशुद्धिमधिस्टेषु मनःपर्यव-सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकादिषु प्रतिपत्तिकालं विहाय परिणामविशेषापेक्षया प्रथमलेश्यात्रयस्यापि सद्भावात्सामान्येन लेश्या षट्कोक्तिन विरूध्यते / उक्तंच. "सम्मत्तसुयं सव्वासु लहइ सुद्धासु तिसु य चारित्तं / पुठ्यपडिवन्नओ पुण अन्नयरीए उ लेसाए।' इति // 52 // अथ प्रस्तावनापुरस्सरं मार्गणास्थानानामल्पबहुत्वं चिन्तयति /