________________ मार्गणास्थानेषूपयोगानयविशेषेण योगत्रये गुणस्थान-जीवस्थानो-पयोगयोगसत्कमतान्तराणि च [ 35 (यशो०) अज्ञानत्रिकादिषु षट्स्थानेषु चक्षुरचक्षुर्दर्शनरूपं द्विकमज्ञानत्रिकं चेति पञ्च / इह विभङ्गेऽवधिदर्शनाभाव उक्तः कर्मप्रकृत्यनुवत्त्या / तत्र हि मिथ्यारूपतया सम्यक् विषयानिश्वायकत्वादवधिदर्शनं न विभङ्गात्पृथग्विवक्षितम् / प्रज्ञापनायां तु विभङ्गस्यावधिदर्शनमनुमतम् / यतस्तत्रोक्तम्-“दसणं विभंगोहीण जउतु रूप (ल्ल)मेवेति यथासम्यग्दृशो विशेषविषयमवधिज्ञानमवधिदर्शनं सामान्यविषयमेवं मिथ्यादृशो विशेषविषयो विभङ्गः सामान्यविषयमवधिदर्शनमिति / ते च प्रागुक्ताः पञ्च विभङ्गरहिताश्चत्वारोऽसंज्ञिनि मनोविज्ञानविकले // 48 // अथोपयोगोपसंहरणाय मतान्तरप्रस्तावनायन्नाह- .... मणनाणचक्खरहिया दम उ अणाहारगेमु उवओगा। इय गइयाइसु नयमयनाणतमिणं तु जोगेसु // 49 / / (यशो०) तुरेवार्थे, दशैवोपयोगा अनाहारके / अनाहारको हि विग्रहगतिकेवलिसमुद्धातभवस्थायोगिसिद्धदशास्वेव प्राप्यते / तत्र विग्रहगतौ सम्यग्दृष्टेनितिकमवधिदर्शनं च / मिथ्यादृष्टेः सास्वादनस्य च मत्यज्ञानश्रुताज्ञाने विभङ्गज्ञानमपि तयाः, . "सन्नी नेरइएसु उरलपरिच्चाग्रणंतरे ममए / विन्भंगं ओहिं वा अविग्गहे विग्गहे लमइ // " इति वचनात्संज्ञिभ्यो नारकेषूत्पद्यमानयोरपर्याप्तदशायां मन्तव्यम् , असंज्ञिभ्यः पुनर्नरकेषूत्पन्नस्य मिथ्यादृशः पर्याप्तदशायामेव विभङ्गज्ञानम् , यत उक्तम्'अस्सन्नी नरगसु पजत्तो जेण लहइ विभंग / नाणा तिन्नेव तओ अन्नाणा दुन्नि तिन्नेवे" ति. एतच्च भानपतिव्यन्तरे-प्वप्युत्पद्यमानयोर्वाच्यम् / ज्योतिष्कवैमानिकेषु पुनरसंज्ञिम्य उत्पाद एव नास्तीत्येव विवादो विभङ्गः / त्रयाणामप्यचक्षदर्शनमेवमेतेष्वष्टौ / केवलिसमुद्घाते भास्थायोगिगुणस्थानके सिद्धेषु च केवलद्विकमिति विवेकः / इति गत्यादिषु उपयोगा योजिता इति शेषः / अत्र नयमतेन-निश्चयनयाश्रयेण नानात्वं विशेषो नयमतनानात्वं योगेषु इदं वक्ष्यमाणम् , तुशब्दः प्राग्व्याख्यानात्करिष्यमाणव्याख्यानव्यतिरेकसूचकः // 49 // तदेव नानात्वमाह-- तणुवइमणेसु कमसो दुवउतिपंचा दुअट्टचउचउरो। तेरसदुबारतेरस गुणजीवुवओगजोगत्ति // 50 // (यशो०) तनौ काययोगे क्रमेण द्वौ चत्वारः त्रयः पञ्च गुणस्थान-जीवस्थानो-पयोग-योगाः / वाचि-बाग्योगे क्रमेण द्वावष्टौ चत्वारः चत्वारो गुणस्थान-जीवस्थानो-पयोग-योगाः / मनसिमनोयोगे क्रमेण त्रयोदश द्वौ द्वादश त्रयोदश गुणस्थान-जीवस्थानो-पयोग-योगा भवन्तीत्यक्षरघटना / भावार्थस्तु काययोगे मनोवाग्रहिते आद्यगुणस्थानद्वयम् , आदिमं जीवस्थानकचतुष्कम् ,