________________ अंघे मार्गणास्थानेषु चोपयोगाः यते जीव एभिरिति वा उपयोगा-जीवस्वतत्त्वभूतबोधात्मनः। ते च परिच्छेद्यभेदावधा। साकारा अनाकाराश्च / तत्र सामान्यविशषात्मके वस्तुनि विशेषांशग्राहिणः साकाराः / सह विशिष्टाकारेण विशेषग्राहित्वात्मकेन वर्तन्ते इति कृत्वा / सामान्यांशग्राहिणोऽनाकाराः / विशिष्टाकारस्याऽभावात् / तत्र ज्ञानपञ्चकं मतिज्ञानादि पूर्वोपवर्णितं मत्यज्ञानाद्यज्ञानत्रिकं चैत्यष्टौ साकाराः / चतुर्णा दर्शनानामचक्षुर्दर्शनादीनां प्राग्व्याकृतार्थानां समाह रश्चतुर्दर्शन मितिशब्दानुवृत्तेरिति दर्शनचतुष्टयरूपा अनाकाराः / एतेन भेदानुगतं स्वरूपमुक्तम् / “जीवलक्खणे"ति जीवानां लक्षगानि स्वरूपाणि 'उपयोगलक्षणो जीव" इति वचनादिदं च सामान्यानुयायि स्वरूपम् / द्वादशेति संख्यायाः सामर्थ्यगम्याया अपि साक्षादुपादानमेतवान्त एव न न्यूनाधिका इति नियमार्थम् / अत्र "सव्वाउ लद्धीओ सागरोवउत्तस्स भवन्ती" ति वचनाल्लब्धिहेतुत्वेन प्राधान्यात् / छद्मस्थगतसाकाराणामन्तमुहूर्त्तकालत्वेनाल्ये-ऽपि साकाराणां पर्यायपरिच्छेदकतयाचिरस्थायित्वेनाऽनाकाम्यः संख्यातगुणकालत्वादादी साकारा उक्ताः, ततोऽनाकाराः / यत्तु विभङ्गज्ञानान्निवर्तमानस्य साकारानाकारोपयोगद्वयेऽपि वर्तमानस्य सम्यक्त्वावधि: ज्ञानप्रतिपत्तिरस्तीत्युक्तं पञ्चमाङ्गतदवस्थितपरिणामापेक्षया "सव्वाओ लद्वीओ" इत्यादि तु वचनं प्रवर्त्तमानपरिणामापेक्षयेति न विरोधः / ज्ञानपञ्चकस्या-ऽज्ञानत्रिकस्य दर्शनचतुष्कस्य च निर्देशक्रमहेतवः प्रागुक्ताः // 42 // अथैतान् मार्गणास्थानेषु योजयतिमणुयगईए बारम मणकेवलदुहिया नवन्नासु / थावरइगबितिइंदिसु अबक्खुदंमणमनाणदुगं // 43 // (यशो०) मनुष्यगतौ द्वादश, तत्र सर्वेषामपि सम्भवात् / मनःपर्यव-केवलद्विकवर्जिता नवाऽन्यासु देव-तिर्यग्नरकगतिपु / मनःपर्यवकेवलद्विकाभावस्तु संयमपरिणामाभावात् / स्थावरेषु पृथिव्यादिषु पञ्चसु एक-द्वि-त्रीन्द्रियेषु चाष्टासु पदेषु अचक्षु दर्शनमत्यज्ञानश्रुताज्ञानरूपमुपयोगत्रयम् // 43 // चक्खुजुयं चरिंदिसु तं चिय बारस पणिदितमकाए। जोए वेए सुक्काएँ भवसन्नीसु आहारे // 44 // (यशो०) चक्षुर्दर्शनयुक्तं तदेव प्राचीनमुपयोगत्रयं चतुरिन्द्रियेषु पञ्च द्रियादिषु द्वादशसु पदेषु द्वादशोपयोगाः प्रतीताः / परं यत्संज्ञिनि केवलद्विक निगदितं तत्केवलिनः संझ्य-संज्ञिव्यपदेशशून्यस्यापि द्रव्यमनोऽपेक्षया 'संज्ञि' इति विवक्षणान्मन्तव्यम् / यस्वनिवृतिवादर एव व्य