________________ 32 ] षडशीतिनाम्नि चतुर्तो कर्मग्रन्थे परिहारे सुहुमे नव उरलवइमणा सकम्मुरलमिस्सा। अहखाए सविउव्वा मीसे देसे सविउवदुगा // 4 // (यशो०) परिहारविशुद्धिके सूक्ष्मसम्पराये च औदारिको वाक्चतुष्टयं मनश्चतुष्टयं चेति नव / ते पूर्वोक्ता नव कार्मणौदारिकमिश्री केवलिसमुद्घातापेक्षौ / / उपा] (चेत्येकादश योगा यथाख्यात. सं)यमेऽन्त्यगुणस्थानचतुष्कवर्तिनि भवन्ति / तत्र कार्मणौदारिकमिश्री केवलिसमुद्घातापेक्षौ। उपशान्तक्षीणमोहयोस्तु नव नव योगाः / अयोगिनिसर्वयोगाभाव एव / मिश्रगुणस्थानके तच्छब्दानुवृत्या ते पूर्वोक्ताः परिहारविशुद्धिकसूक्ष्मसम्परायसम्बन्धिनो नव, वैक्रियसहिता दश / अत्र "नसम्ममिच्छे कुणइ काल" मिति वचनान्मिश्रस्य मरणाभावेन विग्रहगतिभावि कार्मणमपर्याप्तावस्थाभाविनावौदारिकमिश्रदेवनारकसम्बन्धिर्वक्रियमिश्री च न भरन्ति / नरतिरश्वोस्तु सम्यग्मि ध्यादृशोक्रियमिश्राभावो वैक्रियस्यैवाकरणादन्यतो वा कारणादिति तत्त्वविदो विदन्ति / आहारकद्विकाभावः प्रतीतः / देशे-देशविरतेऽत्रापि तच्छब्दानुवृत्या ते पूर्वोक्ता नव वैक्रियद्विकेन तु सहिता एकादश / वैक्रियद्विकं देशविरतस्याम्बडपरिव्राजक स्यैक (स्येव) वैक्रियलब्धौ सत्या द्रष्टव्यम् // 4 // कम्मुरलविउवदुगाणि चरमभामा य छ उ.अमनिमि / जोगा अकम्मगाहारगेसु कम्मणमणाहारे // 41 / / (यशो०)द्विकशब्दस्यौदारिकवैक्रियाभ्यामभिसम्बन्धात्कार्मणौदारिकद्विकवैक्रियद्विकान्यऽसरयामृषा भाषा चेति षड़ योगाः / असंज्ञिनि मनोविज्ञानशून्य एकेन्द्रियादौ / तत्र कार्मणं विग्रहगतो, औदारिकमिश्रोऽपर्याप्तावस्थायाम् , औदारिकं पर्याप्तावस्थायाम् , वैक्रियद्विकंच बादरपर्याप्तवायोः, असत्यामृषा भाषा च पर्याप्तद्वीन्द्रियादीनाम् | आहारकेषु योगा अकर्मकाः कार्मणरहिताश्चतुर्दशेत्यर्थः / यत्तु ऋजुगतौ विग्रहगतौ जोएण कम्मएणं आहारेई अणंतरं जोयो / " इति वचनादुत्पत्तिपञ्चमसमये कार्मणवतोऽप्या-ऽऽहारकत्वम् , तदल्पकालभावित्वान्न विवक्षितमिति (त्यु) च्यते। कार्मणमेकमेवानाहारके / अनाहारको हि मिथ्यादृष्टि-सासादना-ऽविरतगुणस्थानत्रये विग्रहगती सयोगिगुणस्थाने च केवलिसमुद्घाततृतीयचतुर्थपञ्चमसमयेषु प्राप्यते / स च तदा कार्मणेनैव योगेन युतः / अयोगिनस्तु अनाहारकस्य न कार्मणयोगोऽपि, निरूद्धसमग्रयोगत्वादेव // 41 // अधुना मार्गणास्थानेषु योजयितुमुपयोगान् भेदतः स्वरूपतश्च तावदाहनाणं पंचविहं तह अन्नाणतिगं ति अट्ठ सागारा। चउदंमणमणगारा बारस जियलक्खणुवओगा // 42 // . (यशो०)उपयुज्यते ऽर्थपरिच्छित्तिं प्रति व्यापार्यत इति उपयुज्यतेऽर्थे परिच्छेदं प्रतिव्यापा