________________ मार्गणास्थानेषु योगाः नरगइपणिंदितसतणुनरअपुमकसायमइसुओहिदुगे। अच्चक्खुछलेसाभवसम्मदुगसन्निसु य सब्वे // 36 // (यशो०) अत्राऽऽद्यार्धे समाहारद्वन्द्वोऽपराद्धे तु "सन्निसु ये"तिपर्यन्त इतरेतरयोगः "अपुमे"ति नपुंसकः अवधिद्विक-मवधिज्ञानावधिदर्शने, सम्यक्त्वद्विकं क्षायोपशमिक-क्षायिके, ततो नरगत्यादिषु पञ्चविंशतिसंख्येषु स्थानेषु सर्वयोगाः / भावना तु प्रतीता // 36 // एगिदिएसु पंच उ कम्मइगविउव्विउरलजुअलाणि / कम्मुरलदुर्ग अन्तिमभासा विगलेसु चउरोत्ति // 37 // (यशो०) तुरेवार्थे, पञ्चैव, एकेन्द्रियेषु के ? कार्मणं युगलशब्दस्य वैक्रिया-ऽऽहार]यौदारि)काभ्यामभिसम्बन्धाद्वैक्रिययुगलमौदारिकयुगलं च / तत्र कार्मणं विग्रहगता ऋजुगतावुत्पत्तिप्रथमसमये च औदारिकद्विकं पर्याप्तापर्याप्तदशायाम् / वैक्रियद्विकं तु पर्याप्तबादरवायुकायिकापेक्षम् / विकलेषु-विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेषु कार्मणमौदारिकद्विकमन्तिमभाषा चासत्यामृषारूपेति चत्वारः / भावना सुगमा // 37 // कम्मुरलदुगं थावरकाए वाए विउविजुयलजुयं / पढमंतिममणवइदुगकम्मुरलदुकेवलदुर्गमि // 38 // (यशो०) स्थावरकाये पृथिव्यादौ वनस्पत्यन्तेऽर्थाद्वायुवर्जे, कार्मणं च औदारिकद्विकं चेति द्वन्द्वे कार्मणौदारिकद्विकमिति योगत्रयम् / एतदेव वायुकाये वैक्रियद्विकेन युतं-युक्तमिति योगपश्चकम् / भावना त्वेकेन्द्रियवत् / प्रथम सत्यमन्तिममसत्यापं मनस्तद्रपं द्विकं प्रथमा सत्यान्तिमाऽसत्यामृपा वाक् तद्रूपं द्विकं कार्मणमौदारिकद्विकं चेति योगसप्तकं केवलज्ञान केवलदर्शनयोः / अत्र द्रव्यमनः प्रतीत्य मनोभेदद्वयमुक्तम् , वागद्वयमौदारिकं च प्रतीतम् / कामणौदारिकमिश्रयोगौ तु समुद्धाते / उक्तश्च-"औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः। मिश्रोवारिकयोक्ता सप्तमषष्ट द्वितीयेषु // कार्मणशरीरयोगी चतुर्थके पंचमे तृतीये चेति // 38 // 'थीवेयअनाणोवसमअजयसासणअभव्वमिच्छेसु / तेरस मणवइमणनाणछेयसामइयचक्खुसु य // 39 // (यशो०) अत्र पूर्वार्द्धप्रतिपादिते स्थाननवके आहारकद्विकवर्जास्रयोदश / द्वितीयार्द्धगते तु स्थानषट्केऽपर्याप्तत्वाभावादौदारिकमिश्रकार्मणवर्जास्रयोदश विवक्षितवर्जनीयं योगद्विकं च सूत्रकृता सुज्ञानत्वान्नोक्तमिति // 39 // .. 1. "थीवेअन्नाणो” इत्यपि पाठः /