________________ 30 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे तु कृतवैक्रयसमुद्धातौ तावपेक्ष्य कार्मणेनापि / अपर्याप्तदेवनारकापेक्षया तु कार्मणेन / पर्याप्तवादरवायुकायिकपञ्च न्द्रियतिर्यग्मनुष्यापेक्षया पुनरौदारिकेण यत्र स वैक्रियमिश्रः / अत्रा-ऽपि प्रारम्भकाले प्रारभ्यमाणत्वेन त्यागकाले च बहुव्यापकत्वेन वैक्रियस्य प्राधान्याद्वैकियमिश्र इति व्यपदेशः, न तु कार्मणमिश्र इत्यौदारिकमिश्र इति वा / अत्र सैद्धान्तिका वायुकायिकतिर्यग्मनुष्याणां वैक्रियस्यारम्भकाले औदारिकस्य बहुव्यापारत्वेन प्राधान्यादौदारिकमिश्रमभ्युपयन्ति / अन्ये तु वैक्रियत्यागकाले औदारिकस्य प्रारभ्यमाणत्वेन प्राधान्यादौदारिकमिश्रमभ्युपयन्ति / आहारको मिश्रो यत्र सामर्थ्यप्राप्तेनौदारिकेण स आहारकमिश्रः। अयं च चतुर्दशपूर्वविद आहारकारम्भत्यागकालयोबर्बोद्धव्यः / अन्ये त्वाहारकस्याऽऽरम्भकाले, केचित्त त्यागकाल औदारिकमिश्रं मन्यन्ते / कारणानि तु पूर्ववत् , कमैंव कार्मणम् , कर्मविपाको वा कार्मणः, तपः काययोगः / अयं तु केवल ऋजुगतौ विग्रहगतावुत्पत्तिप्रथमसमये केवलिसमुद्धातस्य च त्रिचतुःपञ्चसमयेषु लम्यते / तैजसकाययोगस्तु सर्वदैव कार्मणसहभावित्वात् कार्मणेनैव संगृहीत इति पृथग्नोक्तः / मनोवाकाययोगानाक्रमकारणं प्रागुक्तम् , मनोभेदेषु प्रशस्यत्वादादौ सत्यस्य, ततस्तत्प्रतिपक्षत्वादसत्यस्य, ततस्तदुभयनिष्पन्नत्वान्मिश्रस्य, तदनुभयलब्धात्मलाभत्वादसत्या. मृषस्योपादानम् / एष एव वाग्भेदेष्वपि निर्देशक्रमहेतुः / काययोगभेदेषु पुनरुत्कृष्टतोऽ-नन्तकालभावित्वेनौदारिकस्य, तत उत्कृष्टतः संख्यातसागरोपमकालभावित्वेन वेक्रियस्य, ततोन्तमुहूर्तकालभावित्वेना-ऽऽहारकस्य, तत औदारिकादियोगमू(लानां मिश्राणां कार्मणे शैदारिकादिमिश्राणाम् / तदनन्तरं केवलस्य कतिपयसमयभावित्वेन संसारान्त(वर्तिनां संसार)निमित्त(त्वेन च कामणस्य निर्देशः // 34 / / अथ तान् मार्गणा) स्थानेषु योजयति / एकारस सुरनार यगईसु आहार उरलदुगरहिया। जोगा तिरियगईए तेरस आहारगदुगुणा // 35 // (यशो०) सुरनारकगत्योरेकादश योगाः। द्विकशब्दस्य प्रत्येकमभिसम्बन्धादाहारकद्विकेन रहिता औदारिकद्विकेन रहिताः / आहारका-ऽऽहारकमिश्रौदारिकौदारिकमिश्ररहिता एकादश योगा इत्यर्थः / आहारकद्विकं यतेरेव औदारिकद्विकं तिर्यग्नराणामेवेति तत्परिहरणम् , तिर्यग्गतौ त्रयोदश, के ? आहारकद्विकेनोना = ऽऽहारकद्विकशेषा / भावना पूर्ववत् // 3 // A अयं च बाहुल्यापेक्षया विवक्षाभेदः / अन्यथौदारिककायस्योत्कृष्टकालो देशोनद्वाविंशतिवर्षसहस्राणि, वैक्रियस्य चान्तमुहूर्तमात्र एव इति ज्ञयम्। . . .