________________ मार्गणास्थानेषु गुणस्थानानि, ओघतो योगाश्च [ 26 अधुना मार्गणास्थानेष्वेव योगान्योजयितु योगभेदास्तावदाह सच्च मोसं मीसं असच्चमोसं मणं तह वई य / उरलविउव्वाहारा मीसा कम्मइगमिय जोगा॥३४॥ (यशो०) योगाः सपूर्व व्याकृतार्थास्ते त्रिविधा अपि पञ्चदशधा मनोयोगचतुष्टयवाग्योगचतुष्टयकाययोगसप्तकमीलनेन / अत एव गाथान्ते "हय जोगा"इतीयत्ताद्योतकं पदमुक्तम् / तत्र मनोयोगस्तावच्चतुर्दा, सत्यासत्यमिश्रासत्यामृषाभेदेन / तत्र सन्ति मुनयः पदार्था वा तेम्यो मुक्ति प्रापकत्वेन यथाऽवस्थितस्वरूपपर्यालोचनेन वा हितः सत्यः / यथास्ति जीवः सदसद्रूप इत्यादि। यथावस्थितवस्तुचिन्तनपरः सत्यमनोयोगः / सत्यविज्ञानजनकत्वात्तु मनोयोगस्य सत्यत्वव्यपदेशः, कारणे कार्योपचारात् / एवमन्यत्रापि / तद्विपरीतो ऽसत्यो-मृषा / यथा नास्ति जीव एकान्तमपो वेत्यादि विमर्शनपरः। सत्यासत्योभयरूपो मिश्री यथा धवखदिरमिश्रेषु बहुप्वशोकवनमिति विकल्पननिष्ठः / न विद्यते सत्यं यत्र सोऽसत्यो न विद्यते मृषा यत्रासावमषा असत्यश्वासावमृषश्च कृताकृतादिवत्कर्मधारयेऽसत्यामुषः / यत्किल विवादे सति वस्तुप्रतिष्ठाशया जिनमतानुसारेण विकल्प्यन्ते तत्सत्यम् / यजिनमतानवतारि विकल्पयते तदसत्यम् / यत्तु वस्तु प्रतितिष्ठासां विना स्वरूपमात्रप्रज्ञापनापरं व्यवहारपतितं विमृश्यते तन सत्यं नाप्यसत्यं किन्त्व सत्यामृतम् / तदेवं देवदत्त घटमानय भिक्षा देहीत्यादिपरामर्शकोऽसत्यामृषो मनोयोगः / एवं यथा मनोयोगश्चतुद्धा तथा तेन प्रकारेणास्ति जीवः सद्रप इत्यादिसमुच्चारणमात्रभेदेन चतुर्की वाग्योग उदाहार्यः / काययोगभेदास्तु सूचकत्वात् सूत्रस्य औदारिको वैक्रिय आहार इति त्रयः, पुनरेत एव प्रत्येकं मिश्रपदविशेषिता इति षट् , कार्मणेन सह सप्त / तत्रोदारः प्रधानं स एवौदारिक प्राधान्यं च तीर्थकरगणधरपुरुषापेक्षया यद्वा सातिरेकयोजनसहस्रमानत्वात् शेषभवधारणीयकायेम्यो महाप्रमाण उदारः, स एवौदारिकः काययोगः / विशिष्टा विविधा वा क्रिया विक्रिया, तस्या भावो वैक्रियः / चतुर्दशपूर्वविदा संशयच्छेदनवार्थग्रहणार्थं तीर्थंकरादिसन्निधिगमन-प्राणिदया-स्वसमृद्धिप्रकटनहेतवे विशिष्टलब्धिवशाद् हियते निर्माप्यत इत्याहारकः / स च जघन्यत एको द्वौत्रयो वा उत्कांतः सहस्त्रपृथक्त्वमानो युगपन्नानाजीवानां सम्भवति / एकजीवस्य त्वेकभवे वारद्वयम् / सर्वभवेषु वारचतुष्टयमेव / चतुर्थवेलायां कृतं तद्भव एव मुक्तेरिति / औदारिको मिश्रो यत्र सामर्थ्याय तेन कार्मणेन स औदारिकमिश्रः / उत्पत्तिदेसे हि समनन्तरागतो जन्तु. रायसमये कार्मणेनैवाहारयति। तत ऊर्धमौदारिकस्याऽऽरब्धत्वात्कार्मणमिश्रेणौदारिकेणकार्मगौदारिकयोमिश्रत्वे समाने पि ओदारिकस्यारम्यमाणत्वेन प्राधान्यादौदारिकमिश्र इति व्यपदेशः। वैक्रियो मिश्र उत्तरवैक्रियारम्भत्यागकालयोः पर्याप्तदेवनारकावपेक्ष्य वैक्रियेण / केषांचिन्मतेन