________________ 28 // षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे वारस अवखुचक्खुसु पढमा लेसासुतिसु छ दुसु सत्त। सुक्काएँ तेरस गुणा सव्वे भव्वे अभव्वेगं // 31 // (यशो०) “सव्वे भव्वे" इति पदं विहाय प्रथमशब्दस्य सर्वत्राभिसम्बन्धादचक्षुश्चक्षुर्दर्शनयोर्दा दश प्रथमानि / लेश्यास्वाद्यासु तिसृषु प्रथमानि षट् / तत्र कृष्णादिलेश्यात्रये प्रथमानां चतुर्णा सद्भावः, मंदसंक्लेशे तु तत्र देशविरतप्रमत्तयोः सद्भावः। प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणानि .. धध्यवसायस्थानानि / लेश्यानां मतभेदेन तु चत्वार्येव / यतः केचिद्देशविरतादित्रयस्य विशुद्धतैजस्यादित्रये सद्भावं मन्यते / न कृष्णादिलेश्यात्रये / देशविरतादित्रयस्य विरतत्वात् , तथाविधसंक्लेशवत्तिनात तत्र विरतेरभावात / द्वयोस्तैजसीपबलेश्ययोः सप्त प्रथमानि | शुक्लायां तु प्रथमानि त्रयोदश / भव्ये सर्वाणि चतुर्दश / अभव्ये प्रथममेकम् / // 1 // वेयग खड़ग उसमे चउरो एक्कारसट्ट तुरियाई / सेसतिगे सहाणं सनिसु चउदस अमनिसु दो // 32 // (यशो०) वेद्यन्ते-विपाकेनानुभूयन्ते सम्यक्त्वपुञ्जपुद्गलो यत्रतद्वेदकं झायोपशमिकम् / यदप्यन्यत्र क्षपितमायदर्शनसप्तकस्य सम्यक्त्वपुञ्जचरमपुद्गलग्रासरूपं वेदकमुक्तं तदप्येतदेव / तत्र वेदके क्षायिक ओपशमिके च यथासंख्येन चत्वारि एकादश अष्टौ तुर्यादीनि-चतुर्थादीनिअविरतसम्यग्दृष्टिप्रमुखाणि क्रमेणा-ऽप्रमातान्तानि अयोग्यन्तानि उपशान्तमोहान्तानीत्यर्थः / शेपत्रिके सम्यक्त्वत्रयापेक्षया विपक्षभूते मिश्रसास्वादनमिथ्यादृष्टिनाम्नि स्वस्थानं स्वपदं मिश्रे मिश्रं सास्वादने सास्वादनं मिथ्यात्वे मिथ्यात्वमित्यर्थः / संज्ञपु-मनोविज्ञानसहितेषु चतुर्दश / यतोऽत्र द्रव्यमनोऽपेक्षया सयोगी / प्राचीनद्रव्यमनोऽपेक्षया वा-ऽयोग्यपि संज्ञीति व्यवहतः / अन्ये तु केवली “नोसन्नी नोऽसन्नी” इतिवचनाऽवष्टम्भेन संशिषु सयोग्ययोगिरूपं गुणस्थानं द्वयं न प्रतिपद्यन्ते / असंक्षिषु द्वे आये // 32 // आहारगेस पठमा तेरसणाहारगेस पंच इमे / 'पढमतदुगअविरया इय गइयाईसु गुणठाणा // 33 // (यशो०) आहारकेषु प्रथमानि त्रयोदश / अनाहारकेषु पञ्चेमानि / तान्येवाह- 'पदमन्ते" तिद्विक-शब्दस्य प्रत्येकमभिसम्बन्धात्प्रथमद्विकान्त्यद्विकाविरतरूपाणि पश्च। तत्र मिथ्यात्व-सास्वादनाविरतसम्यग्दृष्टिरूपाणि विग्रहगतौ / सयोगिगुणस्थानं समुद्धाते तृतीयचतुर्थपञ्चमसमयेषु / अयोगिगुणस्थानं तु पञ्चहस्वाक्षरोगिरणमात्रकालम् / इत्यमुनोल्लेखेन गत्यादिषु मार्गणास्थानेषु गुणस्थानानि योजितानीति शेषः // 33 // 1. "पठमंतिमदुगअविरय गइयाइसु इय गुणट्ठाणा // 33 // " इत्यपि पाठः।