________________ मार्गणास्थानेषु गुणम्थानानि भूदगतरूसु दो एगमगणिवाऊसु उदस तसेसु। जोए तेरस वेए तिकसाए नव दस य लोभे // 28 // (यशो०) भूदकतरूषु पृथिव्यब्वनस्पतिषु द्वे द्वे आये / तत्र मिथ्यात्वं सुगमम् / सास्वादनं करणापर्याप्तेषु / एकमायमग्निवायुष्वतिसंक्लिष्ठतया सासादनभावान्वितस्यैष्वनुत्पत्तेः। त्रसेषु चतुईश / द्वीन्द्रियादिपञ्चेन्द्रियान्तसंग्राहित्वेन सर्वगुणानां सम्भवात् / योगे मनोवाक्कायरूपेऽयोगिवर्जानि त्रयोदश / वेदे नपुसकस्त्रीपुरूपे त्रयः कषायाः समाहातात्रिकषायं तत्र क्रोधमानमायात्मके नवाद्यानि / तत्राऽनिवृत्तिबादराख्यनवमगुणस्थाने वर्तमानो यावदेतत्कषायत्रिकं नाद्यापि क्षपयत्युपशमयति वा तावत् स्वगुणस्थानसंख्येयभागान्यावदेतद्वेदत्रयकषायत्रयवानवाप्यते, न परतः / लोभे दशादितः प्रभृति / सूक्ष्मसम्पराये-ऽपि किट्टीकृतालोभसम्भवात् // 28 // मइसुयओहिदुगे नव अजयाइ जयाइ सत्त मणनाणे / केवलदुगंमि दो तिन्नि दो व पढमा अनाणतिगे / / 29 / / (यशो०)मतिज्ञानश्रुतज्ञाना-ऽवधिज्ञाना-ऽवधिदर्शनेषु नव अयतादीनि अविरतसम्यग्दृष्टयादीनि क्षीणमोहान्तानि मनःपर्यायज्ञाने यतादीनि-प्रमत्तसंयतादीनि क्षीणमोहान्तानि / केवलद्विकेकेवलज्ञानकेवलदर्शनात्मनि द्वे सयोग्ययोगिरूपे / अज्ञानत्रिके-मत्यज्ञान-श्रुतज्ञान-विभङ्गाख्ये / त्रीण्यादिमानि द्वे वा प्रथमे / तत्र ये त्रीणि मन्यन्ते, तेषामिदमाकूतं यन्मिश्रदृष्टेज्ञॉनान्यपि अज्ञा. नान्येव, यथाऽवस्थितवस्तुपरिच्छेदाभावात् , ज्ञानकार्याऽकरणाद्वा / ये तु द्वे एव प्रतिजानते, तेपामयमभिसंधिर्यदुत मिश्रदृष्टेज्ञानानि किश्चित्समीचीनरूपत्वादीपत्कलुषभावभाज्यपि सम्यगज्ञाना येव, अतो-ज्ञानात्रये मिश्रदृष्टिर्न प्राप्यते / न च सास्वादनस्यापि सम्यग्दृष्टित्वेन तदवबोधस्यापि सम्यग्ज्ञानात्मकत्वादज्ञानत्रितये सास्वादनगुणस्थानासद्भाव इति वाच्यम् / यतस्तज्ज्ञानस्य प्रथमकषायोदयेनातिदूषितत्वादज्ञानत्वमेव // 26 // सामाइयछेएसु चउरो परिहार दो पमत्ताई। देससुहुमे सगं पढमचरमचउअजयअहखाए // 30 // (यशो०)सामायिकच्छेदोपस्थापनीययोश्चत्वारि प्रमत्तादीनि अनिवृत्तिवादरान्तानि / परिहारविशुद्धिके द्वे प्रमत्ताऽप्रमत्तरूपे, नोत्तराणि, श्रेणेरभावात् / देशविरते स्वकं स्वकीयं देशविरत्यभिधम्, सूक्ष्मसंम्पराये स्वकं सूक्ष्मसंरायात्मकम् / प्रथमचरमयोरयत-यथाख्याताम्यां सह यथाक्रम सम्बन्धस्ततः प्रथमानि मिथ्यादृष्टयादीनि चत्वार्यसंयते / यतोऽत्रासंयतत्वं विरतेरभावः, स चा-ऽविरतसम्यमिथ्यादृशोस्तुल्यः / यथाख्याते तु चरमाणि उपशान्तकषायादीनि चत्वारि // 30 //