________________ 26] षडशीतिनाम्नि चतुर्य कर्मग्रन्थे ऽसत्त्वात् / सन्निरोधानन्तरं च समुच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन् हस्वपश्चाक्षरोद्गिरणमात्रमात्रकालं शैलीशीकरणं प्रविष्टो भवति / शीलस्य योगलेश्यामलविकलयथाख्यातचारित्ररूपस्य य ईशः स शीलेशस्तस्येयं शैलेशी, त्रिभागीनस्वदेहावगाहनायामुदरादिरन्ध्रपूरणात्संकोचितस्वप्रदेशस्य शेलेश्याऽऽत्मनोऽत्यन्तस्थिरावस्थितिरित्यर्थः / तस्यां करणं-पूर्वरचितशैलेशीसमयसमानगुणश्रेणीकस्य नाम-वेद्य-गोत्राख्यस्याघातिकर्मत्रयस्याऽसंख्येयगुणया श्रेण्या,आयुःशेषस्य तु यथास्वरूपस्थितिकया श्रेण्या निर्जरणं शैलेशीकरणम् / तत्र प्रविष्टोऽयोगोऽयोगी वा स चासौ केवली च स तथा / अयं च शैलेशीकरणचरमसमयानन्तरं सिद्धो भवति / सिद्धोपि च सन्नयोगकेवलीति व्यपदिश्यते / योगानामभावात् केवलस्य च भावात् / एतदपेक्षयैव चोत्तरत्रायोगिकेवलिनामानन्त्यं वक्ष्यते / भवस्थापेक्षया तु संख्यात्वमेव स्यात् / तस्य .. गुणस्थानमयोगकेवलिगुणस्थानमयोगिकेवलिगुणस्थानं वा // 14 // एषामुत्तरोत्तरप्रवर्द्धमानविशुद्धमत्ता / एवं क्रमनिर्देशहेतुः / अत एवाह-गुणा"इति सूचकत्वात् सूत्रस्य इतेरुल्लेखार्थस्य च गम्यमानत्वादित्येवंरूपाणि गुणानां स्थानानि-उपचयापचयजाः स्वरूपविशेषा गुणस्थानानि / तथाहि-पूर्वपूर्वगुणापेक्षयोत्तरोत्तरगुणानामुपचय उत्तरोत्तरगुणापेक्षया पूर्वपूर्वगुणानामपचयः / कालप्रमाणं चामीषां यथाजीवाणममध्वाणं मिच्छत्तमणाइअनिहणं नेयं / भवियाणमिणमणाई संतं पत्तंमि सम्मत्ते // 1 // सासाणं छावलियं तुरियं तेत्तीससागरा अहिया / पंचममह तेरसमं देसूणा पुव्वकोडी उ // 2 // चरिमं हस्सपणरवरउग्गिरणपमाणयं भवत्थाणं / सिद्धाणमणंतद्धं अन्तमुहुत्तं तु सेसाणि ||3|| समओ उ जहण्णेणं पमत्तसासणुवसन्तमोहाणं / देससजोगिअसंजयमिच्छत्ताणं मुहत्तंतो // 4 // नीवसमासे त्वप्रमत्तादीनां चतुणों समयो जधन्यः कालः / सांप्रतमेतानि मार्गणास्थानेषु योजयति चत्तारि देवनरएसु पंच तिरिएसु चउदस नरेसु। .. इगिविगलेसु दो दो पंचिंदीसु चउद्दस वि // 27 // (यशो०) देवनरकगत्योराद्यानि चत्वारि, न शेषाणि, विरतेरभावात् / तिर्यग्गतौ देशविरत्यन्तान्याद्यानि पञ्च, नान्यानि, सर्वविरतेरभावात् / मनुष्यगतौ चतुर्दश-सर्वगुणाश्रयत्वात्तस्याः / "इगिविगलेसु"ति एकेन्द्रियविकलेन्द्रियेषु मिथ्यात्वसास्वादनरूपे द्वे / तत्रैतेषु सर्वभेदभिन्नेषु मिथ्यात्वं प्रतीतम् / स्वास्वादनं तु तेजोवायुवर्जप्रत्येकबादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु करणापर्याप्तेषु द्रष्टव्यम् / पञ्चेन्द्रियेषु चतुर्दश / तत्रैतेषु सर्वभेदेषु मिथ्यात्वम् , असंज्ञिषु पञ्चेन्द्रियेषु करणापर्याप्तेषु सास्वादनम् , संक्षिषु करणापर्याप्तेषु सासादना-ऽविरताख्ये, शेषाणि त्वेकादशापि संज्ञिषु पर्याप्तेष्वेव // 27 //