________________ गुणस्थानानि छद्मस्थ उपशान्तकषायवीतरागः सम्भवति, यः छन्मस्थग्रहणेन व्यवच्छिद्येत / अयमुपशान्तकषायवीतरागच्छद्मस्थो जघन्यतः समयमुत्कर्षतोऽन्तमुहूर्त भवति / तत सर्व नियमेनाद्धाक्षयेण भवक्षयेण वा प्रतिपतति / तत्र भवक्षयो त्रियमाणस्य,अद्धाक्षय उपशान्ताद्धायां पूर्णायाम् / अद्धाक्षण प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति / अयं च वारचतुष्टयमुपशमश्रेणिं नानाभवेषु प्रतिपद्यते / 'च: उबसमित्त मोह' इति वचनात् / एकस्मिस्तु वारद्वयमुत्कर्षत ‘एगभवे दुखुत्तोचरितमोहं उनसमेह' इति वचनात् / यश्च वारद्वयमेता प्रतिपद्यते तस्य तत्र भवे नियमात् क्षपकश्रे रभावः / यः पुनरेकवारं प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपीति कर्मग्रन्थमतम् / सिद्धान्तमतं त्वेकभवे एकामेव श्रेणी प्रतिपद्यते / यत्कल्पः-'अन्नयरसेढिबज्ज एगभदेण च सव्वा' इति / अत्र संख्याता वर्तन्ते // 11 // क्षीणा:-क्षयमापन्नाः कषाया यस्य स तथा, स चासौ वीतरागच्छद्मस्थश्च क्षीणकषायवीतरागछद्मस्थस्तस्य गुणस्थानं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानम् / अस्मिन् द्वादशे गुणस्थाने परमार्थेन दर्शितायाः क्षपकश्रेणेरेकादशे चोपशमश्रेणेः परिसमाप्तिभवति / श्रेणिद्वयस्यास्य परिसमाप्तिकालोऽप्यन्तमुहूर्तमेव, असंख्येयत्वादन्तमुहर्सानाम् / तत्राविरताद्यप्रमतान्तेष्वाद्यान् कषायान्दर्शनत्रयं च, शेषास्तु संज्वलनलोभविकलाननिवृत्ती, संज्वलनं लोभं च सूक्ष्मसम्पराये क्षपयति / तदेवमेतेष्वपि गुणस्थानेषु क्षीणकषायव्यपदेशः प्रसज्यते, क्वापि कियतां कषायाणां क्षयसद्भावाद् , अतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् , क्षीणकषायवीतरागत्वे सति च्छद्मस्थग्रहणं केवलीव्युदासाय, छद्मस्थग्रहणे सति सरागपराकरणार्थं वीतरागग्रहणम् , क्षीणकषायग्रहणं चोपशान्तकषायव्यवच्छित्तये। अत्र संख्याता भवन्ति।१२।।सह योगेन-- वीर्येण वर्तन्ते सयोगा मनोवाकायास्ते विद्यन्ते यस्य सयोगी / यद्वा अनुत्तरविमानवासिमनः• 'पर्यायज्ञानादिभिः किंचिन्मनसा पृष्टस्य केवलिनो मनसैवावेदने मनोयोगस्याद्यान्त्यभेदभाजः, देशनादौ वाग्योगस्यादिमान्तिमभेदान्वितस्य. चंक्रमणादावौदारिककाययोगस्य च सद्भावात् , सहयोगैमनोवाकार्यर्तत इति सयोगः, सयोगी वा, सर्वधनादेशकृतिगणत्वेन मत्वर्थीयेन्विधानात् , केवलमस्तीति केवली, सयोगश्चासौ सयोगी वा चासौ केपली च तस्य गुणस्थानं सयोगकेवलिगुणस्थानं सयोगिकेवलगुणस्थानमिति वा / अत्र कोटिपृथक्त्वमापद्यते // 13 // न सन्ति प्राचीना[मयोगा यस्या-ऽसावयागोऽयोगी वा पूर्ववत् / अयोगित्वं पुनरेवम्-त्रिविधोऽपि योगः सूक्ष्मवादरत्वाभ्यां वेधा, केवली च केवलोत्पादादुई जघन्यतोऽन्तमुहर्त्तमुत्कृष्टतस्तु देशोनां पूर्वकोटी विहृत्यान्तमुहूर्तशेषायुः शैलेशी प्रतिपित्सुरादौ बादरकाययोगेन बादरवाग्मनोयोगी निरुध्य सूक्ष्मकाययोगावष्टम्मेन बादरकाययोगं निरुणद्धि / सर्वबादरयोगनिरोधानन्तरं च सूक्ष्मकाययोगावष्टभ्मेन सूक्ष्मवाग्मनोयोगी निरुणद्धि / सूक्ष्मकाययोगं तु सूक्ष्मक्रिय मनिवर्चिशुक्लध्यानं ध्यायन् सावष्टम्भेनैव निरुणद्धि / अन्यस्यावष्टम्भनीययोगान्तरस्य तदा