________________ 24 / षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे नयनं संचारणं गुणसंक्रमः / एनमप्यत्र विशिष्टतरत्वादपूर्व करोति / विशिष्टाध्यवसायपरिगृहीतस्य कर्मदलिकस्य यत्कालनियमनं स स्थितिबन्धः एतं चाशुद्धत्वात्प्रान्द्राधीयांसमाकार्षीदिह तु विशुद्धत्वाल्लघीयांसं करोति / उपलक्षणं चैतदुदयोद्वर्त्तनादीनाम् , यत एतानप्यपूर्वान् करोत्यत्र स चापूर्वकरणः क्षपणाया उपसमनायाथार्हत्वात् क्षपक उपशमको वा न पुनरयं क्षपयत्युपशमयनि वा किश्चित् / तस्य गुणस्थानमपूर्वकरणगुणस्थानम् / अत्र संख्याता लभ्यन्ते // 8 // एककालमिदं गुणस्थानमाधिरूढानां बहूनामसुमन्तां परस्परसम्बन्धिनोध्यवसायस्थानस्य व्यावृतिरिह निवृत्तिः, नास्ति तथाविधा साऽस्येत्यनिवृत्तिः / तुल्यकालमिदमारूढानामन्येषां यदध्यवसायरथानं विवक्षितस्यापि तदेवेत्यर्थः / / 9 / / सम्परैति-पर्यटति संसारमनेनेति सम्परायः = पायोदयः, बादरसूक्ष्मसम्परायापेक्षया स्थूलः सम्परायोऽस्येति वादरसम्परायोऽनिवृत्तिश्चासौ बादरसम्परायश्च स तथा, स च क्षपकोपशमकभेदात् द्विधा, तत्राऽबद्धायुः क्षपकः प्रत्याख्यानाप्रत्याखानकषायाष्टकम क्षपितं कृतान्तराल एवातिविशुद्धिवशेन अपितस्त्यान ित्रिकनरकद्विकतिर्यग्द्विकन्द्रियादिजातिचतुष्कातपोद्योतस्थावर-साधारणसूक्ष्माभिधानषोडशप्रकृतिर्मतान्तरेण त्वपर्याप्तप्रक्षेपात्क्षपितसप्तदशप्रकृतिस्तस्यैव क्षपितशेष क्षपयति, ततः क्रमेण नपुसकवेद खी-वेद-हास्यादिपटक-पु वेदसंज्वलनक्रोध-मान-मायाः क्षपयति, ततो लोभमपि बादरं सूक्ष्मलोभस्य सूक्ष्मसम्पराय एव क्षपणात् उपशमकस्तु नपुसकवेदं स्त्रीवेदं हास्यादिषट्कं पुवेदं द्वितीयतृतीयौ क्रोधौ चतुर्थक्रोधं द्वितीयतृतीयौ मानौ चतुर्थमानं द्वितीयतृतीये माये चतुर्थमायां द्वितीयतृतीयौ लोभौ च क्रमेणोपशमयति / ततश्चास्य सामान्येनेहोक्तअपणोपशमविषयक्रमस्यावश्यकवृत्तिकृता विशेषेण क्षपणायामुपशमनायां च निष्टङ्कितक्रमान्तमुहूर्तमनिवृत्तिबादरसंपरायगुणस्थानम् / अत्र संख्याताः प्राप्यन्ते / / 3 / / सूक्ष्मः सम्पराय:किट्टीकृतलोभकपायोदयरूपो यस्य स सूक्ष्मसम्परायः क्षपक उपशमो वा / तस्य गुणस्थानं सूक्ष्मसम्परायगुणस्थानं / अत्र संख्याता अधिगम्यन्ते // 10 // छाद्यते केवलं ज्ञानं दर्शनं चात्मनोऽनेति छद्म, तच्चान ज्ञानदर्शनावरणान्तरायकर्मोदयरूपम् , तत्र तिष्ठतीति छद्मस्थः, वीतो रागो मायालोभोदयरूपो यस्य स तथा, स चासौ छमस्थश्च वीतरागछमस्थः / उपशान्ता-उपशमं नीताः सन्त एव संक्रमणोद्वर्त्तनादिकरणायोग्यत्वेन व्यवस्थापिताः कपाया येन स तथा, स चासो वीतरागछद्मस्थश्च उपशान्तकपायवीतरागच्छद्मस्थस्तस्य गुणस्थानम् उपशान्तकषायवीतरागच्छद्मस्थगुणस्थानम् / तत्रोपशान्तकपायग्रहणे सति वीतरागग्रहणमविरतसम्यग्दृष्ट्यादीनां प्रमत्तान्तानां व्यवच्छेदाय, तेपामप्यनन्तानुबन्ध्यादिकियत्कषायोपशमकत्वात् , वीतरागग्रहणे चोपशान्तकपायवीतरागग्रहणं क्षीणऋपायस्य निरासाय, उपशान्तकषायवीतरागग्रहणे छद्मरथग्रहणं स्वरूपाविष्करणार्थम् : नह्य