________________ गुणस्थानानि सम्यग्टष्टिमिश्रो मिथ्यादृग्वा भवति / सिद्धान्तमतेन तु कोऽप्यनादिमिथ्थाढक्तथाविधगुर्वादिसामग्र्यामपूर्वकरणेन पुञत्रयं कृत्वा शुद्धपुञ्जपुद्गलान्वेदयतापशमिकसभ्यग्दृष्टिग्भूत्यैव क्षायोपशमिकसम्यग्दृष्टिर्भवति / अन्यस्तूक्तक्रमेणवौपशमिकसम्यग्दृष्टिर्भवति / पुञ्जत्रयमसो न करोत्येव / तदकरणादेव चौपशमिकाच्च्युतो मिथ्यात्वमेव व्रजति / यत्कल्पभाष्यम्"आलम्त्रणमलहन्ती जह सद्धाणं न मुञ्चई इलिया / एवं अकयतिपुञ्जी मिच्छं चिय उवसमी एह // " / अत्रा-ऽसंख्याताः सर्वदेव आसाद्यन्ते // 4 // प्रत्याख्यानकषायोदयेन विचारितसर्वविरतिलाभत्वात्कग्णत्रययोगत्रयविषयसर्वसावद्ययोगस्य देशे विवक्षितैकवतगोचरस्थूलसावद्ययोगादौ समस्तव्रतविषयानुमतिरहितव्यापारान्ते विरतं-विरतिर्यस्य स तथा, तस्य गुणस्थानं देशविरतगुणस्थानम् / अत्रापि संख्यातीताः सततमऽवाप्यन्ते // 5 / / संयच्छति स्म सर्वसावर योगात्, सम्यगुपरमति स्म संयतः, प्रमाद्यति स्म-संयमयोगेषु सीदति स्म प्रमत्तः, यद्वा प्रमदनं प्रमत्तं प्रमादो मदिरा-विषय-कपाय-निद्रा-विकथानामन्यतमः, सर्वे वा, प्रमत्तमस्यास्तीति मत्वर्थीयात्प्रत्यये प्रमत्तः, स चासौ संयतश्च स तथा, तस्य गुणस्थानं प्रमत्तसंयतगुणस्थानम् / अत्र कोटिसहस्रपृथक्त्वं प्राप्यते // 6 // प्रमत्तविपरीतोऽप्रमतः, स चासो संयतश्चाप्रमत्तसंयतस्तस्य गुणस्थानमप्रमत्तसंयतगुणस्थानम् / अवसर्पिण्यास्तृतीये चतुर्थे चारके उत्सप्पिण्या द्वितीये तृतीये चतुर्थे चारकेऽवसर्पिण्युत्सर्पिणीव्यतिरिक्ते चतुर्थारकप्रतिमे च काले लब्धजन्मोत्तमसंहननो वर्षाष्टकोपरि शुभलेश्यो मनुष्योऽस्मिन्नप्रमत्तगुणस्थानकेऽविरतादीनां त्रयाणां गुणस्थानकानामन्यतमे वा वर्तमानः प्रथमकषायचतुष्क-दर्शनत्रिवक्षपणाया आरम्भकः / अत्रा-ऽप्रमत्तगुणस्थानके प्रमत्तसंयतेभ्यः स्तोकाः प्राप्यन्ते // 7 // युगपदिदं गुणस्थानमनुप्रविष्टानामन्योन्यमध्यवसायस्थानस्य भेदरूपा निवृत्तिरप्यम्तीति निवृत्तिः, सा चासौ गुणस्थानं च निवृत्तिगुणस्थानम् / अस्य नियतिघादर' इत्यपि संज्ञा / यन्मूलावश्यकटीका-क्षपक श्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तको निवृत्ति यादरो भण्यते / अपूर्वकरणगुणस्थानमिति संज्ञान्तरमप्यस्य, तत्रापूर्व-नवं स्थितिघात-रसघात-गुणश्रेणि-गुणसंक्रम-स्थितिबन्धानां करणं-निवर्तनमस्येत्यपूर्वकरणः / तत्र महामानायाः कर्मस्थितेरपर्वर्तनाव रणे नाल्पीकरणं स्थितिघातः / रसस्य प्रभूतस्यापवर्तनाकरणेनाल्यीकरणं रसघातः / एतौ च प्राक्तनगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव व्यधादत्र तु विशुद्धेरुत्कृष्टत्वेन महाप्रमाणावपूर्ती विधत्ते। उपरितनस्थितेर्विशुद्धिवशादपवर्त्तनाकरणेनावतारितस्य दलिकस्यान्तमु हत्तप्रमाणमुदयसमयस्योपरि शीघ्रतरक्षपणाय प्रतिसमयमसंख्येयगुणया वृद्ध्या रचनं गुणश्रेणिरुच्यते / एतां च पूर्वगुणस्थानेष्वविशुद्धत्वेन कालतो दीर्घा दलिकरचनामाश्रित्य लघीयसी दलिकस्यापवर्तनात् कृतवान् / अत्र तु विशुद्धत्वाद पूर्वा कालतो स्वतरां (दलिकरचना) स्वीकृत्य पृथीयसी बहुतरस्य दलिकस्यापवर्त्तनात् करोति / तथा बध्यमानशुभकर्मस्ववध्यमानाशुभकर्मदलिकस्य प्रतिब्दिशब्द](क्षण)मसंख्येयगुणवृद्ध्या विशुद्धिवशेन