________________ गुणस्थानानि / 21 समये दण्डं संहृत्य शरीरस्थो भवति / तदा तस्य वेवलिनः समुद्घातः केवलिसमुद्घातः / / 7 / / अयं चाष्टसामायिकः // इति पूर्वार्द्धार्थः / / उत्तरार्द्धार्थस्तु-मनुजानां सर्वसम्भवात्सप्तापि / चतुविधदेवानामाहाकलब्धिकेवलित्वाभावात्पश्चाद्याः / नारकाणां तैज[सआ](सा-ऽऽ)हारकलब्धिकेवलित्वाभावादाद्याश्चत्वारः / पृथिव्य तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां वैक्रियलब्ध्यभावात् त्रयः / वायूनां चादरकरणपर्याप्तवसनाड्यन्तर्गतानां प्रायो वैक्रियलब्धिसंभवाच्चत्वारः / गर्भजपञ्चेन्द्रियतिरश्च तेजोलब्रेरपि भावादाद्याश्चत्वारः / एवं समुद्घातस्य सप्तविधत्वेऽपि संक्षिपर्याप्तलक्षणमेकं जीवस्थानं केवलीसमुद्घात एव मन्तव्यम् , अत्रैव तृतीयचतुर्थपञ्चमसमयेष्वनाहारकत्वसम्भवात् / इत्येवमनाहारके सप्तापर्याप्तरूपाणि संज्ञिपर्याप्तेन सहाष्टौ जीवस्थानानीति स्थितम् / इत्यनेन प्रकारेण गत्यादिषु मार्गणास्थानेषु जीवस्थानानि चिन्तितानि // 25 // इदानीं मार्गणास्थानेषु योजयितुकामो गुणस्थानानि चतुर्दश नामतः स्वरूपतश्चमिच्छे सासणमिस्से अविरयदेसे पमत्तअपमत्ते / नियटिअनियट्टिसहुमुवसमखीणसजोगजोगिगुणा // 26 // (यशो.) “नियटो"त्यत्र प्राकृतत्वात् दृस्य द्वित्वाभावः / सूचकत्वात्सूत्रस्य, पदैकदेशे पदसमुदायोपचाराद्वा मिच्छादिद्विगुणठाणं सासायणसम्मदिद्विगुणठाणमित्यादि दृश्यम् / तत्र मिथ्याविपर्यासवती दृष्टि-रहत्प्रणीततत्त्वप्रतिपत्तिर्यस्य कवलितहत्पूरस्य सिते पीतप्रतिपत्तिवत्स मिथ्यादृष्टिः / गुणा-ज्ञानादिरूपा जीयस्वभावविशेषास्तिष्ठन्त्यस्मिन्निति स्थानम् , गुणानामेवोपचयापचयजः स्वरूपविशेषः, गुणानां स्थानं गुणस्थानम् , ततश्च मिथ्या दृष्टेगुणिस्थानं सास्वादनाद्यपेझया गुगानामपचयजः स्वरूपविशेषो मिथ्यादृष्टिगुणस्थानम् / इह यद्यपि मिथ्यादृष्टेविपर्यस्तदृष्टित्वात्सम्यग्बोधाभावेन गुणानामभावेन गुणस्थानाभावः। तथापि तस्य काचिच्चैतन्यकला कशीकार्याऽन्यथाऽजीवत्वप्रसङ्गः / सा च मिथ्यात्वोदया विपर्ययपरीताऽपि चिद्र पत्वाद् व्यवहारतो गुणत्वेनेप्टेति तद्भाजनतया मिथ्यादृष्टेगुणस्थानत्वमुपपन्नम् / अत्र गुणस्थाने समस्तजन्तुराशेरनन्ततमेन भागेन रहिताः सर्वेऽपि जन्तवोऽवाप्यन्ते // 1 // आद्यमौपशमिकसम्यग्दनिप्राप्तिरूपं सादयत्य=ऽपनयतीति नैरुक्ते यशब्दलोपः, आसादनं प्रथमकषायोदयवेदनम् / ततश्च सहा-ऽऽसादनेन वर्चत इति सासादनः / स चासो सम्यग् अविपरीता दृष्टिर्जिनप्रणीततत्त्वप्रतिपत्तिरस्येति सम्यग्दृष्टिश्च सासादनसम्यग्दृष्टिस्तस्य गुणस्थानं सासादनसम्यग्दृष्टिगुणस्थानम् / यद्वा सह सातनया प्रथमकषायोदयरूपया वर्त्तत इति सासादनः / स चासौ सम्यग्दृष्टिश्चेत्यादि प्राग्वत् / अथवा सह औपशमिकतवरसास्वादनेन वर्तते, तद्रसं नाधा-ऽपि सर्वथा त्यजतीति सास्वादनः, स चासौ सम्यग्दृष्टिश्चेत्यादि प्रागिव / एतच्च यथा भवति तथा समासत उच्यते,