________________ 20 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे राण्या-ऽऽपूर्या-ऽऽयामविस्ताराभ्यां कायप्रमाणं क्षेत्रं व्याप्या ऽऽस्ते, तदा तस्य कषायहेतुभिः समुद्घातः कषायसमुद्वातः / अनेन कषायमोहनीयपुद्गलानां शातो भवति / / 2 / / यदा कश्चिदन्तमुहूर्तशेषेष्वायुभिविष्कम्भबाहुल्याभ्यां शरीरमानमायामेन जघन्यतोऽङगुलासंख्येयभागमुत्कृष्टतोऽसंख्येययोजनानि शरीराद्धहिः स्वप्रदेशदण्डं निसृज्य परभवे यत्र स्थाने स्वयमुत्पत्स्यते तत्र प्रक्षिपति, तदा तस्य मरगमेव प्राणिनामन्तकारित्वादन्तो मरणान्तस्तत्र भवो मारणात्तः समुद्घातः / एतेन चायुःकर्मपुद्गलानां शातो भवति // 3 // यदा कश्चिद्वैक्रियलब्धिमान् वैक्रियकरणकाले विकम्भवाहल्याभ्यां कायमानमायामेन जघन्यतोऽगुलसंख्येय-: भागमुत्कृष्टतः संख्येयानि योजनानि शरीरादहिः स्वप्रदेशदण्डं निसृज्य यथा स्थूलान्रक्रियशरीरानामकर्म पुद्गलान्प्राग्बद्धान शातयति * (तदा तस्य वैक्रियशरीरनामकर्मविषयः समुद्धातो. वैक्रियसमुद्धातः, यद्वा वैक्रियशरीरकरणकालविषयः समुद्धातो वैक्रियसमुद्घातः // 4 // यदा कश्चित्तेजोनिसर्गलब्धिमान् क्रुद्धः साधादिः सप्ताष्टौ पदान्यवष्वक्य विष्कम्भवाहल्याभ्यां देहमानमायामेन तु जघन्यतो-ऽगुलासङख्येयभागमुत्कृष्टतः पुनः संख्येयानि योजनान्यनन्ततेजसशरीरस्कन्धवेष्टितानां जीवप्रदेशानां दण्डं शरीराबहिः प्रक्षिपति, ततः क्रोधविषयीकृतं मनुष्यादि निर्दहति, तदा तस्य तेजोविषयः समुद्धातः तेजःसमुद्धातः / अनेन च प्रभूताँस्तैजःशरीरनामकर्म पुद्गलान शातयति // 5 // यदा कश्चिदा-ऽऽहारकशरीरलब्धिमान चतुर्दशपूर्वविद् आहारकशरीरकरर्णकाले विष्कम्भवाहल्याम्यां शरीरमानमायामेन जधन्यतोऽङ्गुलसङ्ख्येयभागमुत्कृष्टतस्तु संख्येयानि योजनानि शरीराद् बहिः स्वप्रदेशदण्ड निसृज्य यथास्थूलान् प्रभूतानाहारकशरीरनामकर्म पुद्गलान् प्राग्वद्धान् शातयति तदा तस्याहारकशरीरकरणकाले समुद्घात आहारकसमुद्घातः // 6 // एते च वेदनादयः षडग्यान्तमौहूर्तिकाः // यदान्तमुहूर्त्तायुः केवली वेदनीय-नाम-गोत्रकर्मात्रयं नायुषः समं न्यूनं वा किन्त्वतिप्रचुरमाकलयति, तदा वेदनीयादित्रयस्य क्षिप्रतरक्षपणाय केवलज्ञानाभोगतो जीवप्रदेशसंघातं प्रथमसमये विष्कम्भवाहल्याभ्यां कायप्रमितमायामत ऊवधिोलोकान्तगामिनं दण्डाकारत्वेन दण्डं द्वितीयसमये तमेव पूर्वापरदिकप्रसारणात् तिर्यग्लोकान्तकपाटाकारत्वेन कपाटं तृतीयसमये च दक्षिणोत्तरदिप्रसारणात् तिर्यग्लोकान्तव्यापाकं मथ्याकारत्वेन मन्थानं कृत्वा चतुर्थसमये च जीवप्रदेशानामनुश्रेणिगमनातृतीयसमये पूरितानि मथ्यन्तराणि लोकनिष्कुटानि च पूरयित्वा पञ्चमसमये मथ्यन्तरप्रसृतान् जीवप्रदेशान् संहृत्य षष्ठे समये मन्थानमुपसंहृत्य सप्तमसमये कपाटं शड्कोच्याष्टम * ( ) एतच्चिन्हान्तर्गतः पाठोऽत्र प्रक्षिप्तो द्रष्टव्यः / एवमन्यत्रापि।