________________ मार्गणास्थानेषु जीवस्थानानि [16 न तु परभवप्रथमसमयः / पूर्वशरीरस्याद्यापि सद्भावात्तत्सद्भावे च न विद्यत आहारोऽस्येत्यनाहारक इति वक्तुमशक्यमेवेत्यनाहारको न भवते / इदं च मतद्वयमपि कथञ्चित्प्रमाणम् , मतद्वयमयत्वात् जिनशासनस्येति ! द्वितीयसमये चाहारक इत्यत्रा-ऽविवादः / द्विवक्रा त्रिसमया,यथा यदा तस्मादेवेशानकोणोपरिभागान्नेरुतकोणाधस्तनप्रदेशे उत्पत्तिस्तदाबक्षणे वायव्यकोणोपरिभागं गच्छति, ततो द्वितीयक्षणे विग्रहेण नेरुतकोणोपरिभागं गच्छति, तृतीयक्षणे विग्रहेणैव तदधस्तनभागरूपमुत्पत्तिस्थानमासादयतति / अत्रापि प्रागुक्तयुक्त्तेनिश्चयनयमत आद्यक्षणद्वयेऽनाहारकः / व्यवहारनयमते तु प्रागुक्तोपपत्तेरे कस्मिन्नेव मध्यमे क्षणेऽनाहारको न त्वायान्त्यक्षणयोरिति / तदेवं त्रसानामृजुगतिरेकवक्रा द्विवक्रा च विग्रहगतिरित्येतदेव गतित्रयं भवति / अथेकेन्द्रियाण मेव त्रिवक्रा चतुःसमया यथा यदा त्रसनाडया बहिर्वि दग व्यव. स्थितम्य यस्य निगोदादेरधोलोकालोक उत्पादो नाड्या बहिरेव दिशि भवति. तदेकेन. समयेनासो विदिशो दिशमागत्य द्वितीयेन नाडी प्रविश्य तृतीयेनोद्धर्वलोकं गत्वा चतुर्थेन नाडीतो निर्गत्योत्पत्तिस्थान उत्पद्यत इति / अत्रापि प्राग्वदेकीयमते नाडी एषु त्रिषु समयेप्वनाहारकश्चत” त्याहारकः / अन्यदीयमतेन तु मध्यमयोर्वक्रसमययोवानाहारको न त्वा दमान्तिमसमययोः / चतुर्वक्रा पञ्चसामायिकी, यथा यदा त्रसनाडी बहिविदिशस्तद्वहिविदिश्वोत्पद्यते तदा भवति / अत्र स समयत्रयं पूर्ववदेव चतुर्थे तु समो नाडीतो बहिन्निर्गत्योत्पत्तिस्थानस्य समश्रेणी प्रतिपद्यते, पञ्चमे तु नाडी बहिर्विदिग्लक्षणमुत्पतिस्थानमाप्नोति / अत्राप्येकमतेनाधसमयचतुष्टयेऽनाहारकः पश्चमे बाहारकः / अन्यमतेन मध्यमे वक्रसमयत्रय एवानाहारको न तु प्रथमचरमसमययोरिति / मौइ. पर्याप्तलक्षणं तु [वहिः] (जीव)स्थानं समुद्घाते / समुदातश्च सम्शब्दस्यैकीभावार्थत्वाज्जीवस्य वेदनायनुभवज्ञानेन महकीभावेन तदेकपरिणामात्मना उच्छब्दस्य प्राबल्यार्थत्वात्प्राबल्येन घातो-हननं बहूनां वेदनीयादिकम् प्रदेशानां कालान्तरानुभवयोग्यानामुदीरणाकरणेनाकृष्योदयप्रक्षेपपुरस्सरमनुभूयनिर्जरणं-जीवप्रदेशैःसह सम्बद्धानां ज्ञातन मित्यर्थः / यद्वा समन्ताचं च हम्यन्ते क्षिप्यन्ते जीवप्रदेशा यत्रा-ऽसौ समुद्घातः / स च सप्तधा : यदुत्तम् वैयण 1 कषाय 2 मारण 3 वेउव्विय 4 तेय 5 हार 6 केवलिया 7 // / सगपण चउ तिन्निकमा मणु 7 सुर 5 नेरइय 4 तिरियाण ३।।"मिति / * अस्या व्याख्या-तत्र यदा वेदनाभिभूतः कश्चित्प्रदेशाननन्तानन्तकर्मस्कन्धानुविद्धान् शरीराद्वहिः प्रक्षिपति, तैश्च जठरमुखादिशुपिराण्याऽऽपूर्य विस्तारायामाभ्यां देहमानं क्षेत्रमभिव्याप्य तिष्ठतिः तदा तस्य वेदनयाऽसद्वेदनीयोदयप्रभवया पीडया समुद्घातो वेदनासमुद्घातः / अनेन च प्रभृतासातवेदनीयपुद्गलानां शातो भवति // 1 // यदा तु तीवकषायोदयाकुलितः स्वादेशान्बहिः क्षिप्त्या स्वप्रदेशैरेव सर्वशुषि अत्र प्रतिपादितसमुद्घातस्वरूपं जीवसमासश्रीमन्मलधारगच्छोयहेमचन्द्रसूरिवृत्यनुसारि /