SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 18] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थ परिगृहीतस्सत एतेषु मनःपर्यवादिषु पर्याप्तसंज्ञिरूपमेकं जीवस्थानम् / केवली च यद्यपि न संज्ञीनाप्यसंझीति प्रतीतस्तथापि द्रव्यमनोयोगादिह संज्ञित्वेन विवक्षितः / चक्षदर्शने त्रीणि पर्याप्तचतुरिन्द्रिया-ऽसंज्ञि-संज्ञिपञ्चेन्द्रियरूपाणि षड् वा चरमाणि पर्याप्तेतराणि पर्याप्तकरणापर्याप्तचतुरिन्द्रियासंज्ञिसंज्ञिरूपाणि / यतः केचिदिन्द्रियपर्याप्तिमात्रपर्याप्तावस्थायामपि चक्षुर्दर्शनमभ्युपगच्छन्ति / / 23 // सत्त उ सासाणे बायराइ छ अपज्जमन्निपज्जा य / तेउल्लेसे बायरअपजत्तो दुविहसन्नी य // 24 // (यशो०) तुरेवार्थः, ततो-ऽयमर्थःसासादनभावे मृतस्य बद्धायुषो बादरादिषूत्पद्यमानस्य सासादनमवाप्यतेऽतः सासादने बादरादीनि संज्ञिपञ्चेन्द्रियान्तानि करणापर्याप्तरूपाणि पट् , पर्यातसंज्ञिरूपं चेति सप्लैव / तथा ईशानान्तजघन्यायुर्देवेभ्यश्च्युतस्य शुभपृथिव्युदकवनस्पतेः पञ्चेन्द्रियेपूत्पन्नस्य करणापर्याप्तस्य प्राग्भवभाविनी पर्याप्तपञ्चेन्द्रियस्य तद्भवभाविनी तेजोलेश्या भवतीति तेजोलेश्यायां करणापर्याप्तबादरसंज्ञिरूपे पर्याप्तसंज्ञिरूपं चेति त्रीणि // 24 // अस्सन्नि आइ बारस अणहारे अट्ठ सत्त अपजत्ता / सन्नी पज्जत्तो तह इय 'गइयाइसु जियहाणा // 25 // (यशो०) असंज्ञिनि मनोविज्ञानशून्ये एकेन्द्रियादौ "आई"ति विभक्तिलोपादाद्यानि द्वादश पर्याप्ताऽपर्याप्तसंज्ञिरहितानीत्यर्थः / अनाहारके सप्तापर्याप्तरूपाणि जीवस्थानानि विग्रहगताविति सा निरूप्यते / जन्तोमरणस्थानाद् भाविभवोत्पादस्थान एकसमयेन प्राञ्जलगमनमृजुगतिः, तदपेक्षया वक्रत्वेन विलक्षणायाः श्रेणेहणं विग्रहस्तेन गतिविग्रहगतिः / सा द्विसमया एकवक्रा यथा यदेशानकोणोपरिभागादाग्नेयकोणाधस्तनभागे कश्चिदुत्पद्यते, तदाये समय 'ईशानकोणोपरिभागादाग्नेयकोणोपरिभागं गत्वा तदधस्तनभागलक्षणस्योत्पतिस्थानस्य समश्रेणी प्रतिपद्यते,जीवपुद्गलयोरनुश्रेणिगमनादाद्यसमय एवोत्पत्तिस्थानाप्राप्तेः ततो द्वितीयसमये वक्र विधाय तत्रोत्पत्तिस्थाने जन्तुर.त्पद्यत इति, अस्यां चैकवक्रायां द्विसमयायां विग्रहगतावाघसमये मुच्यमानं मुक्त = मभावीभूतमिति पूर्वशरीरस्य मुक्तत्यादग्रेतनस्याद्याप्यप्राप्तत्वादनाहारक इति क्रियाकालनिष्ठाकालयोरभेदवादिनिश्चयनयानुगप्रज्ञप्त्यद्यागमानुसारिणः / क्रियाकालनिष्ठाकालयोर्मेदवादिव्यवहारनयमतावलम्बितत्वार्थटीकाद्यनुसारिणस्तु मन्यन्ते-अत्राद्यसमयेप्याहारकोऽसौ न भवति / प्राक्तनशरीरं ह्यत्र मुच्यमानममुक्तमत एवायं पूर्वभवचरमसमय एव, 9. "गडयाईस जियठाणा" इति वा।
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy