________________ मार्गणास्थानेषु जीवस्थानानि ___(यशो०) अवधिद्विकमवधिज्ञानमवधिदर्शनं च, त्रीणि सम्यक्त्वानिझायोपशमिक-क्षायिको पशमिकरूपाणि, एतेषु च मत्यादिध्वेकादशसु स्थानेषु पर्याप्तकरणापर्याप्तसंज्ञिलक्षणे द्वे जीवस्थाने तत्र करणापर्याप्तरूपंजीवस्थानमेतेपु देवादिम्यः समागत्य मनुष्यादौ प्रथमं समुत्पन्नस्य / नवरं रत्नप्रभायां भुवनपतिव्यन्तरेषु चासंज्ञिभ्य उत्पद्यमानस्यापर्याप्तस्य विभगो न लभ्यते / संज्ञिभ्यः पुनरपर्याप्तस्यापि भवतीति विभङ्गे विशेषो दृश्यः। पर्याप्तसंनिरूपं प्रतीतम् / यद्यप्योपशमिके पर्याप्त एव संज्ञी सङ्गतिमङ्गतिः अपर्याप्तस्य संजिन औपशमिकाभावात् / तथा ह्यसावपर्याप्तदशायां तावदिदं तथाविधविशुध्यभावान्नोत्पादयितु समर्थः / पारभविकं तु नोपपत्तिसहम् / यतो यो-ऽनादिमिथ्यादृक् तत्प्रथमनया औपशमिकमाप्नोति, न स तद्भावमापनः कालं करोति / यत उत्तम्"अणबन्धोदय 2, माउगबंधं 3 कालं च 4 सासणे कुणइ / उबसमसम्मदिट्टी चउण्हमे पि नो कुणइ' ति। न चोपशमश्रेणेमृ त्याऽनुत्तरसुरे पृत्पद्यमानस्यापय तस्यैतत्प्राप्यत इति प्रतिपादयितु साप्रतम् , तस्य प्रथमसमय एव सम्यत्त्वपुद्गलोदयात् / उक्तं च- जो उवसमसम्मट्ठिी उसमसेढीए कालं करेइ, सो पढमसमए चेव सम्मत्तपुजं उदयावलियाए छोड़ण सम्मत्तपुग्गले वेएइ नेण न उवसमसम्मदिट्ठी अपज्जत्तगोलभइ।" इति निश्चयनयपरशतकमतम् तथापि व्यवहारनयपरपञ्चसंग्रहादिमतमवलम्ब्यात्रौपशमिकसम्यग्दृष्टेः संझ्यपर्याप्तोऽप्यभिहितः, यतस्तत्र-ऽवक्तव्यस्य सर्वथोपशान्तये मोहस्योदया अवक्तव्योदया मोहस्यैव नानाजीवापेक्षया पश्चाभिहिता एकषट्-सप्ताष्टनवोदयरूपाः / तत्रैकोदयो लोभस्यैकस्योदयोऽद्धाक्षये उपशमश्रेणेः प्रतिपतितः सूक्ष्मसंपरायप्रथमसमयेऽवाप्यते / शेषाश्चत्वारो भवक्षय एव / यत उपशान्तस्य सत आयुःक्षयादनुत्तरसुरेषु प्रथमसमय उत्पद्यमानस्य लभ्यन्ते / तत्रानन्तानुबन्धिशेषकपायत्रयहास्यरतिपुरुषवेदानामुदयः पडुदयः / भयेन वा जुगुप्सया वा वेदकेन वा क्षिप्तेन त्रिधा सप्तोदयः / भयजुगुप्सयोर्भयवेदकयो जुगुप्सावेदकयोर्वाऽऽक्षिप्तयोस्त्रिधाष्टोदयः / तत्रैकपडुदयो द्वौ सप्तोदयौ वेदकवन्ध्याकोऽष्टोदयो वेदकविकल इति चत्वार उदया औपशमिकसम्यग्दृप्टेः क्षायिकसम्यग्दृष्टेश्च सम्भवन्ति / तत उपशान्तः कालगत औपशमिकसम्यग्दृष्टिः संश्यपर्याप्तोऽपि लभ्यते / न च क्षायिकसम्यग्दृप्टें व वेदकरहिता उदया इति वाच्यम् / तत्र पृथग्विवक्षाया अभावात् / कर्मसप्ततिकाचूां च ‘छलोदओ उवसमसम्मदिट्ठस्स वा खाइगसम्मदिहिस्स वे'' त्यादेर्व्यक्तमेव भणनायुक्तमुक्तं सूत्रकृतीपशमिकसम्यक्त्ये संध्यपर्याप्तोऽपि भवतीति // 22 // मणपज्जबकेवलदुगसंजयदेसजयमीसदिट्ठीसु / सन्नी पजो चक्खुमि तिन्नि छ व पजियरचरमा // 23 // (यशो०) अत्र गुणगुणिने रभेदोपचारादिह संयतशब्देन संयमः सामायिकादिः पञ्चविधोऽपि