________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे पञ्चेन्द्रियरूपस्तृतीयो जीवभेदो-ऽप्यवाप्यते / नन्वन्यन्त्र बन्धशतक-बन्धस्वामित्व-पञ्चसंग्रहादिषु ग्रन्थेषु नराणां जीवम्थानद्वयमेवोदितम् / तत्कथं घटनीयमिति चेत् , सत्यम् ,) तत्र मनुष्यवायर्यावरणात्संक्लिष्टत्वाच्च सम्मूर्छजनरास्तिर्यग्रहणेन गृहीता इत्येके अपर्याप्तका एवामी कालं कुर्वन्तीत्यल्पकालत्वान्न विवक्षिता इत्यपरे मन्यन्त इति / तिर्यग्गतौ चतुर्दश, एकेन्द्रियादीनां संज्ञिपञ्चेन्द्रियान्तानां सभेदानां व्यापकत्वादस्याः / एकेन्द्रियेषु पृथिव्यादिषु सूक्ष्मवादरात्मकानि पर्याप्ता-ऽपर्याप्तभेदानि चत्वारि जीवस्थानानि // 18 // वितिवरिंदिसु दो दो अंतिमचउरो पणिदिसु हवन्ति / थावरपणगे पढमा चउरो चरमा दम तसंसु // 19 // . (यशो०) द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रियेषु द्वे द्वे पर्याप्तापर्याप्तरूपे जीवस्थाने. दोषाणामसम्भवात् / पञ्चेन्द्रियेष्वन्त्यानि चत्वारि संश्यसंज्ञि-पर्याप्ता-ऽपर्याप्तलक्षणानि / उष्माद्यभितप्ता अपि स्थानशीलाः स्थावराः पृथिव्यप्तेजोवायुवनस्पतिरूपास्तेषां पञ्चके सूक्ष्म-बादरापर्याप्ता-ऽपर्याप्तरूपाणि प्रथमानि चत्वारि / त्रस्यन्त्युष्मायभितप्तास्तस्मादुद्विजन्ते च्छायाधभिसर्पन्तीति वसा द्वीन्द्रियाइयस्ते वन्त्यानि (पर्याप्ता-5) पर्याप्तसूक्ष्मवादररहितानि दश / / 16 / / विगलतियमन्निसन्नी पजत्ता पंच हति वय जोगे। मणजोगे सन्निको पुमिथिए चरिमचउरो // 20 // . (यशो०) “पदेकदेशे पदसमुदाय" इतिन्यायाद्विकला विकलेन्द्रिया अपरिपूर्णेन्द्रिया-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रियास्तेषां त्रिकं चासंज्ञी (च) संज्ञी च विभक्तिलोपाद्विकलत्रिकामंज्ञिसंज्ञिनः पर्याप्ताः पश्चवचनयोगे, न शेषाणि, तेषु वाग्योगाभावात् / मनोयोगे एकः संज्ञी पर्याप्तः, तत्रैव मनसः सद्भावात् / पुवेद स्त्री-वेदयोश्चरमाणि पर्याप्तकरणापर्याप्त संझ्यसंझेरूपाणि जीवस्थानानि / लब्ध्यपर्याप्तस्तु सर्वोपि नपुंसक एव / यच्चात्रासंज्ञिनि स्त्रीपुसाभिधानं तत् स्त्रीपुरुषाकारमात्रमङ्गीकृत्य कार्मग्रन्थिकमतेन / सिद्धान्तमतेन त्वसंज्ञी द्विविधोऽपि नपुसक एव / / 20 // काओ गनपुंसकमायमइसुयअनाणअविरयअचक्खू / आइतिलेमा भव्वियरमिच्छआहाग्गे सव्वे // 21 // महसुयओहिदुगविभंगपम्हसुक्कासु तिसु य सम्मेसु / सन्निम्मि य दो ठाणा सन्निअपजत्तपज्जत्ता // 22 // 1. "विगळति ऊसम्मि” इत्यपि पाठः / 2. "होति वइ०" इत्यपि / 3. सन्नेक्को /