________________ मार्गणास्थानांतरभेदानि तेषु जीवस्थानानि च द्यते तदभिलापं च सस्पृहं वहति, किमहं भव्योऽभव्यो वा, यदि भव्यस्तदा भव्यम् , अथामव्यस्तदा धिग्मामित्यादि चिन्तयति कदाचित्स भव्य इति भव्यत्वस्येति / यस्य नेदृशी चिन्ता कदाचित्सोऽभव्य इत्यभव्यत्वस्येति / मिथ्यात्वमोहनीयस्योदीर्णस्य क्षयादनुदीर्णस्यानुविपाकत उपशान्तत्वात् क्षयोपशमाभ्यां निवृतं क्षायोपशमिकम् / अनन्तानुवन्धिकषायचतुष्टयक्षयपूर्वकेण सम्यक्त्वमिमिथ्यात्वरूपस्य दर्शनत्रिकस्य विशुद्धा-ऽध्यवसायात्सर्वथा दलिकनिलेपनाकरणरूपेण क्षयेण निवृत्तं क्षायिकम् / उदयमायातस्य मिथ्यात्वस्य क्षयेऽनुदीर्णस्य सत्तामात्रवर्तिनः प्रदेशतयाप्युदयविधातरूपेणोपशमेन निवृत्तमौपशमिकम् / तत्र संसारिणां क्षायिकापेक्षया प्रभृतकालभावित्वेनादौ क्षायोपशमिकस्य, ततः क्षायिकस्य, ताभ्यामप्यल्पकालत्वेनौपशमिकस्य पश्चानिर्देश इति सम्यक्त्वानि / एतद्विपक्षतया सम्मे"त्युद्देशमूचितानि मिश्र-सास्वादन-मिथ्यास्वादीनि वक्ष्यमागार्थानि / तत्र मध्यस्थत्वादक्लिष्टतया मिश्रस्य, ततः क्लिष्टतया सास्वादनस्य, ततोऽतिक्लिष्टतया मिथ्यात्वस्य कथनम् / संज्ञिनो व्याकृतार्थास्तद्विपक्षतया चासंज्ञिनः "संज्ञो" ऽत्युदेशसूचिता इति निर्दिष्टाः / आहारका अपि निर्दिष्टार्थास्तद्विपक्षतया वाऽऽ"हारे"त्युद्देशसूचितानामनाहारकागां निर्देशः / इत्येवंरूपा उत्तरभेदा द्वापष्टिमार्गणास्थानानां तेषाञ्च निजनिजस्थानापेक्षया निर्देशकमकारणानि यथामति दर्शितानि सूक्ष्मदृशा त्वन्यथाऽ प्यूह्यानि // 17 // सांप्रत्येतेषु जीवस्थानान्याह सुरनरए सन्निदुगं नरेसु तइओ असन्निपजत्तो। तिरियगईए चउदस एगिदिसु आइमा चउरो // 18 // (यशो०)[......................................... भेदा सरनरकयोः सरनरफगत्योः संज्ञिद्वयं पर्याप्तकरणापर्याप्तरूपं ..............."नरकगत्यो...." ....... वगर्भजम......................"रदात्य...भयं...'त्य..... | अ या संशय'......."पर्याप्तघटनीय..........."स्य................... का देस्तु नराणां जीवस्थानद्वयमत्यकाई / ]( "सुरनरए" इत्यादि, मार्गणास्थानेषु जीवमेदाः / सुरनरकयोः सुरनरकगत्योः संज्ञिद्वयं-पर्याप्तकरणा-ऽपर्याप्तरूपं संज्ञिभेद द्वयम् , सुरनरकगत्योर्लब्ध्यपर्याप्तस्योत्पादाभावादिह करणा-ऽपर्याप्तस्य ग्रहणम् / “नरेसु" इत्यादि, नरेषु-मनुष्येषु प्राग्वत् संज्ञिद्विकम्, केवलमिहा-ऽपर्याप्तो लब्धिकरणभेदेन द्विविधोऽवगन्तव्यः, लब्ध्यपर्याप्तसंज्ञिनोऽपीह प्रवेशात् / तृतीयश्च जीवभेदो लब्ध्यपर्याप्तासंज्ञिपञ्चेन्द्रियलक्षणः प्राप्यते, वान्तपित्तादिसंमूर्छिममनुष्याणामसंज्ञिलब्ध्यपर्याप्तकत्वात् / तद्यथा-इह द्विविधा मनुष्याः, गर्भजमनुष्याः संमूर्छिममनुष्याश्च / तत्र गर्भजमनुष्येषु पर्याप्ता-ऽपर्याप्तमंज्ञिभेदद्वयम् , वान्तपित्तादिगतसंमूर्छिममनुष्येष्वपर्याप्तासंझि