________________ 14 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे चाहुलकादादिस्थस्यापि यस्य लोपें निर्दिपः, यद्वा 'अहसदो जाहन्थे आङोऽभिविहीऍ कहियमक्खायं। चरणमकसायमुइय तमहक्खाय अहक्खीय' / / मिति च वचनादथशब्दो यथार्थः / ततोऽथैवयथैवाऽकषायतयेत्यर्थः, आ=अभिविधिना-ऽऽख्यात-मुक्तमथाख्यातम् / इदं चोपशान्तमोहक्षीणमोहसयोग्ययोगिकेवलिसम्बन्धितया चतुर्दा / इहच्छेदोपस्थापनीयादिविशेषाविवक्षया सामान्यं सामायिकमादा उत्तरोत्तरविशुद्धाऽऽधारतयाच्छेदोपस्थापनीयादीनि क्रमेणोपन्यस्थानीति संयमाः / स्वामिनस्तु पुलाक-बकुश-प्रतिसेवनाकुटीला आधद्वितीयसंयमयोः, कषायकुशीलोन्त्यबर्जानाम् , निग्रन्थस्नातकावन्त्यस्य / पुलाका श्यातु पुलाकोद्देशकादवसेयाः / संयमविपक्षतया च 'संयमे' त्युदंशम् च ती यमासंयमा ऽसंयमरूपी धर्मे धर्मिणि उपचाराद्देशयतायतावुक्तौ / व्याख्यास्यमानायें ता चोत्कृष्टतया देवयतः प्रथमं निर्दिष्टस्ततोऽयतः // 15 // अच्चाखुबक्खुओही केवलदसणमओ य छल्लेसा / किण्हा नीला काऊ तेऊ पम्हा य सुक्का य // 16 // (यशो.) इह दर्शनशब्दस्य प्रत्येकमभिसम्बन्धादचक्षुर्दर्शनं चक्षुर्दर्शनमित्यादि दृश्यम् / तत्राचक्षुषा-चक्षुर्जेन्द्रियचतुष्टयेन मनसा च सामान्यविशेषात्मनो वस्तुनः सामान्यांशग्राही बोधोत्पादसमयेऽपि सद्भावेनेन्द्रियानाश्रितसामान्योपयोगमात्रं चाऽचक्षुर्दर्शनम् / चक्षोक्तरूपस्य वस्तुनः सामान्यांशग्रहणात्मकं दर्शनं चक्षुदर्शनम् / अवधिना-रूपिद्रव्यमर्यादयावधिरेव वा करणनिरपेक्षअधिरूपो दर्शनं सामान्यार्थोपादानमवधिदर्शनम् / केवलेन-सम्पूर्णवस्तुतत्त्वग्राहिबोधविशेषरूपेण दर्शनं वस्तुसामान्यांशग्रहणं केवलदर्शनम् / तत्र चाऽचक्षुदर्शनमेकेन्द्रियादीनामपि भवतीत्यविशिष्टत्वात्प्रथममचक्षदेर्शनम् / तत उत्तरोत्तरविशिष्टतया चक्षुर्दर्शनादीन्युक्तानि / अतो लेश्या विभज्यन्त इति शेषः / ताच कृष्णनीलकापोततेजःपद्मशुक्लद्रव्यसाचिव्योपनीततत्तत्परिणामविशेषोदयासादितकृष्णनीलादिव्यपदेशभाजः षट्, 'मूलं साहपस हा गुच्छफले भूमिपडियमक्खणया। सव्वं माणुसपुरिसे साउहजुझंतधणहरणा / / ' इति गाथोक्तजम्बूखादकग्रामघातकोदाहरणद्वयप्रतीततात्पर्यार्थाः / तत्र प्रकर्षपदप्राताशुद्धिकत्वेन प्रथमं कृष्णां लेश्यामुपदोत्तरोत्तराधिकविशुद्धतयोक्तक्रमेण नीलाकापोताद्याः प्रदर्शिताः // 16 // भव्धअभव्या खउवसम खइय उवसमिय मीस सासाणा / मिच्छो य सन्नसन्नी आहारणहार इय भेया // 17 // (यशो.)भव्या-मुक्त्यहस्तिद्विपक्षतया "भवे''त्युद्देशसचिताश्चा-ऽभव्याः। इह भव्यानां भव्य- . त्वमनादिकालसिद्धमेवमभव्यानामप्यभव्यत्वम् / इदं भन्यत्वमभव्यत्वं चानादिकालसंसिद्धमपि केवलिना प्रत्यक्षसिद्धम् / चर्मचक्षुषामनुमानगम्यम् / लिङ्गं त्विदम्-यः संसारविपक्षं मोक्ष प्रतिप