________________ मार्गणास्थान.तारभेदानि स्तत्पश्चविधमपि सामान्यतः सामायिकमुच्यते / केवलं यच्छेदोपस्थापनीया.दभेदोपसेवितं तत्तैरेवभेदेरौचित्येन निगद्यते / यत्तूक्तभेदवन्ध्यं तत्सामान्येन सामायिकमुच्यते / तच्च द्वैधमल्पकालिक यावर्जीविकं च, तत्राद्यं भरतेरावते वादिमान्तिमतीर्थकरतीर्थेष्वनारोपितमहाव्रतस्य, द्वितीयं तु मध्यमतीर्थकरतीर्थवर्तिनां विदेहतीर्थान्तर्वतिनां च / छेदोपस्थापनात्मिकाया[या] उपस्थापनाया [स](अ)भावाद्विज्ञेयम् / प्राचीनपर्यायच्छेदाच्छेदश्च महाव्रतेपूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनम् / तत्सातिचारमितरच्च / तत्र सातिचारं मूलगुणघातिनः पुनव्र तारोपरूपम् / इतरनिरतिचारमल्पकालिक.सामायिकस्य व्रतारोपणात्मकम् ,तीथात्तीर्थान्तरसंक्रमे वा चतुर्यामधर्मात पञ्चयामधर्माभ्युपगम इति / परिहारेण तपोविशेषण विशुद्धिर्यत्र तत्परिहारविशुद्धिकम् / तद्विविधम् / ' निर्विशमानकं निविष्टकायिकं च / तत्र निर्विशमानकांस्तदा सेवकाः परिहारिकास्तदभेदात्तदपि निर्विशमानकम् / निविष्ट आसेवितप्रस्तुतचारित्रः कायो येषां ते स्वार्थिकेकाण निविष्टकायिका अनुपारिहारिकाः। कल्पस्थितश्च कृतप्रस्तुततपसस्तदभेदाचारित्रमपि निर्विष्टकायिकम् / तत्र चत्वारो यतयः पारिहारिका अनुपारिहारिकाश्चत्वारः कल्पस्थितस्तु वाचनाचार्य एक इति नवको गणः / प्रथमसंहननो जन्मत आरम्य जघन्यत एकोनत्रिंशद्वर्षो यतित्वमाश्रित्य विंशतिवर्ष उभयमनुश्रुत्योत्कृष्टतो देशोनपूर्वकोटिको गणगणनाश्रयणेन जघन्यतस्त्रिसंख्य उत्कृष्टतः शतशः पुरुषापेक्षया सप्तविंशतिसंख्यपुरुषा उत्कृष्टतः सहस्त्रशो जघन्यतोप्यवगाढनवमपूर्वतृतीयाचाराभिधानवस्त्ववसानदृष्टिवाद उत्कृष्टतोऽपरिपूर्णदशपूर्वो गच्छानिर्गत्य तीर्थकरस्य सन्निधानासेविततत्तपसो वा सन्निधौ ग्रीष्भे जघन्यमध्यमोत्कृष्टभेदतो यथाक्रमं चतुर्थपष्टाष्टमान्तं शिशिर षष्ठाठमदशमान्तं वर्षास्वष्टमदशमद्वादशमान्तं संसृष्टा-ऽसंसृष्टवर्जितोद्धताल्पलेपावगृहीता भिक्षाग्रहभक्तपानात्मकभिक्षाद्वयाभिग्रहपवित्राचामाम्लपारणकं पारिहारिकानुपारिहारिककल्पस्थितापेक्षया प्रत्येकं पाण्मासावधि समुदितापेक्षयाष्टादशमासावसानमेतत्तपः प्रतिपद्यते / परं प्रथमं पारिहारिक स्ततोऽनुपारिहारिकैः प्रतिपन्नपारिहारिकैः ‘भावरस्मिस्तपसि पूर्णतां नीते कल्पस्थित इदंतपः करोति, शेपास्त्वनुपारिहारिककल्पस्थितत्वे प्रतिपद्यन्ते, एतत्तपःसमाप्तौ सर्वेप्यमी पुनरिदमेव जिनकल्पं गच्छं वा समाश्रयन्ति / तत्र ये भूयो गच्छमाना गच्छन्ति त इत्वराः शुद्धपारिहारिकास्तेषां संहरगोपसर्गातकवेदनानामभाव एतत्तपःप्रभावादेव / ये तु जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिकास्तेषां संहरणाइयो भाज्याः। ततश्चैषामुमयेषां चारित्रं परिहारविशुद्धिकम् / सूक्ष्मः किट्टीकतलोभलक्षणः संपरायः कषायो यत्र तत्सूक्ष्मसंपरायम् / इदं च विशुध्यमानकं क्षपकोपशमयश्रेणिद्वयमारोहतो भवति। संक्लिश्यमानकं तूपशमश्रेणितः प्रतिपततः / सर्वकषायेभ्योऽकषायचारित्रं श: भवतीति जिनसमये समाख्यातम् ।ततो यथैवाख्यातं समये तथैव यच्चारित्रं तद्यथाख्यातम् / सर्वथैष कषायोदयशून्यमित्यर्थः / अहक्खायमिति तु 'कगचजतदपयवां प्रायो लुगि' त्यनेन