________________ 12] पडशीतिनाम्नि चतुर्थे कर्मग्रन्थे तत्संबद्धत्वान्मानस्य, लोभार्थ मायोपादीयत इति ततो लोभकारणत्वान्मायायाः, ततस्तत्कार्यवात्सर्वदोषाश्रयत्वात्सर्वगुरुत्वात्सर्वोपरिक्षपणक्रमाद्वा लोभस्योपादानम् / 'कसायत्ति' इतिशब्द उपप्रदर्शनार्थः // 14 // मइसुयओहीमणके बलाणि मइसुयअनाणविभंगा। सामइयछेयपरिहा-रमुहुमअहखायदेसजयअजया // 15 // (यशो०) “पदैकदेशे पदसमुदाय” इति न्यायान्मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानकेवलज्ञानानीति मन्तव्यम् / एवं च्छेदादिष्वपि / योम्यदेशस्थितस्यार्थस्येन्द्रियाण्याश्रित्य मननं मतिस्तद्रूपं ज्ञानम् , श्रवणं श्रुतं शब्दसंपृक्तार्थप्रत्ययः, यदि वा श्रूयत इति श्रुतं-शद्वस्तत्पुनर्ज्ञानं कारणे कार्योपचारद्वारा / अवधानम् इन्द्रियाद्यनपेक्षतयात्मनः साक्षात्कारेण वस्तुग्रहणम् , यदि वाऽवधि-मर्यादा तेन रूपिद्रव्यमर्यादात्मकेन यज्ञानमुत्पद्यते तदप्युपचारादवधिः / मनसा पर्याया-श्चिन्तनानुगुणाः परिणामास्तेषु ज्ञानम् , अथवा मनांसि पर्येति सर्वात्मना जानातीति कर्मण्यणि मनःपर्यायम् , तच्च तज्ज्ञानं च मनःपर्यायज्ञानम् , एतेषां च ज्ञानानां यथास्वमन्यत्र भेदा उक्ता अपि प्रस्तुताटुपयोगित्वान्नेहोच्यन्ते / केवलं तद्भावे शेषज्ञानाभावादेकमित्यर्थः, तच्च तज्ज्ञानं च केवलज्ञानमिति ज्ञानानि पञ्च / इह स्वामि-काल-कारण-विषय-परोक्षत्व-साधातद्भावे च शेषज्ञानसभावादादावेव मति-श्रुतयोरुपन्यासः / तत्र स्वामी मतिश्रुतयोरेकः / काल: स्थितिकालः प्रवाहापेक्षयाऽतीतादिः सर्वे एव / अप्रतिपतितेकजीवापेक्षयोत्कृष्टतः पट्षष्ठिसागरोपमाण्यधिकानि / कारणं तत्रापि मतिपूर्वकत्वान्मतिभेदत्वाद्वा श्रुतस्य प्रथमं मतेस्ततः श्रुतस्य / ततो जीवस्य साक्षात्कारेण व्याप्रियमाणत्वेन विशिष्टत्वात्कालविपर्ययस्वामिलाभसाधाद्वाद्यज्ञानद्वयानन्तरमवधेग्रहः / तथाहि-य एव मतिश्रुतयोरुक्तः कालः स एवावधेः / यथा च मतिश्रुतयोविपक्षेऽज्ञाने, तथास्य विभङ्गः / य एव च तयोः स्वामी स एवास्यापि / तथा विभङ्गज्ञानिनः सुरादेः सम्यक्त्वावाप्तौ युगपदेव मतिश्रुतावधिज्ञानानां लाभः / ततो विशुद्धचारित्रसव्यपेक्षत्वेनातिविशिष्टत्वान्मनःपर्यायस्य / एभ्यः सर्वेभ्य उत्कृष्टत्वादन्ते केवलग्रहणम् , आद्यज्ञानत्रयविपक्षभूतानि नाण'इत्युद्देशसूचितानि मत्यज्ञानादीनि तु त्रीण्यज्ञानानि / तत्र मतिज्ञानमपि मिथ्यादृशो नञः कुत्सार्थत्वान्मिथ्यात्वसंचलितत्वेन कुत्सितं ज्ञानं मत्यज्ञानम् / एवमस्य श्रुतज्ञानमपि श्रुताज्ञानम् / एवमस्यावधिज्ञानमपि / विविधो विरूपो वा सम्यग्ज्ञानवैदृश्येन भगः परिच्छेदप्रकाशोऽस्मादिति विभङ्गस्तद्रूपं ज्ञानं विभङ्गज्ञानमुच्यते / अत्र विभङ्गध्वनिनैव कुत्साया गमित्वान ज्ञानशब्दो नना विशेषितः / एषामपि क्रमकारणमाद्यज्ञानत्रयवद्विज्ञेयः / सामायिकादयः पञ्च संयमाः। तत्र समोरागद्वेषरहितस्य ज्ञानादीनामायो लाभः समायः, स एव सामायिकं चारित्राचारकर्मक्षयोपशमसमुत्थः सर्वविरतिरूपो जीवपरिणतिविशेष