________________ मूलोत्तरभेदभिन्नानि मार्गणास्थान कानि [ 11 संज्ञिपञ्बेन्द्रियाश्च मीनमहिष्याइयस्तियश्चः / निग्याः नरकाबासास्तत्रोल्पना अपि जन्तयो निरयाः / सुर रादिषु विषये गतिः सुरनरादिशब्दव्यपदेश्यपर्यायनिवन्धनम् / अत्र प्रायः प्रकृष्टसुखस्य च्यवनेाविषादादेरीपदसुखस्य चाऽऽधारतया प्रथमं सुराणाम् , प्रायोल्पसुखस्य बहो न्ध-वध-परिभव-गोत्पत्ति-जरा-रुगादेरसुखस्य चाऽऽधारतया तदनु नराणाम्, प्रायोल्पसुखस्य बहुतरस्य शीतवातातपपारतन्त्र्यादेरसुखस्य चाऽऽस्पदतया ततस्तिरश्वाम् , परमाधार्मिकपरस्परोदीरणक्षेत्रप्रत्ययबहुतमकेवलासुखनिकेतनतया तदनन्तरं नारकाणां गतिरुक्ता / सर्वदैवातिती. वाज्ञानोदयाद्याधारतया प्रागेकेन्द्रियास्तदपेक्षयोत्तरोत्तरविशिष्टक्षयोपशमसमर्पिताधिकाधिककरणोपहितज्ञानभाक्त्वेन क्रमेण द्वीन्द्रियाद्याः पञ्वेन्द्रियान्ता निर्दिष्टाः / एकेन्द्रियादिव्य पदेशश्वामीषां यथोत्तरं प्रवर्द्धमानमतिज्ञानावरणक्षयोपशमाविर्भूतस्यैकेन्द्रियादिजातिनामको. दयनियमितक्रमस्य पर्याप्तकनामकर्मादिसामर्थ्यसिद्धस्य द्रव्यभावरूपस्पर्शनादेरेकद्वयादीन्द्रिय स्य भाजनस्वात् / प्रायोवादीनां धरणस्खलनादिक्षमाशिथिलावयवतया प्रथमं पृथिवीकायस्य, ततः शिथिलावयवतया तद्विपक्षस्या-ऽकायस्य, ततस्तद्विरोधित्वेन तेजस्कायस्य, ततस्तदुपहकत्वेन वायोस्ततस्तत्साद्गुण्यवैगुण्यानुसारिणीवनरपतेः साद्गुण्यवैगुण्य इति वनस्पतिकायस्याथ शकलपृथिवीकायाद्युपभोगयोग्यत्वेन त्रसकायस्य निर्देशः / / 13 / / / मण'वयकाया जोगा इत्थी पुरिसो नपुंसगो वेया। कोहो माणो माया लोभी चउरो कसायत्ति // 14 // (यशो०) काययोगेन मनोयोग्यवर्गणाभ्यो गृहीत्वा मनोरूपेण परिणमितानि वस्तुचिन्ताप्राकानि द्रव्याणि मन इत्युच्यते / तेन सहकारिणा तद्विपयो वा योगो मनोयोगः। उच्यत इति वा भाषापरिणतिमापन्नः पुद्गलसमूहस्तया सहकारिण्या तद्विषयो वा योगो वाग्योगः / चीयत इति काय औदारिकादिस्तेन सहकारिणा तद्विषयो वा योगः काययोगः / तत्र स्तोकाधारतया प्रथमं मनोयोगस्य, तदपेक्षया वह्याश्रयतया वाग्योगस्य, तदपेक्षयाऽतिबह्याश्रयतया तत्पृष्ठे काययोगस्योपन्यासः / यदुदये स्त्रियाः पुंस्यभिलाषः स फुफकाग्निसमानः स्त्रीवेदः / यदुदये पुसः स्त्रियामभिलाप[स्त्रि](स्त)णाग्निज्वालातुल्यः स पुवेदः। यदुदये नपुंसकस्य स्त्रीपुसयोरभिलाषः स महानगरदवाग्निसमो नपुसकवेदः / तत्र पुरुषवेदापेक्षया बमाश्रितत्वादादौ स्त्रीवेदः, ततः पुरुषवेदः, स्त्री-पुरुषोभयाभिलाषित्वेनातिसंक्लिष्टतया तयोरन्ते नपुंसकवेदः / क्रोधोऽक्षान्तिस्वरूपो मानो-वों जात्याधुद्भवममार्दवं माया-बचनाघात्मिका परिणतिलोभो-संतोषात्मको गाग्रंपरिणामः सर्वानुगामित्वादादौ क्रोधस्य तदनु 1 "वह" इत्यपि पाठः /