________________ जीवस्थानेषु योगा उपयोगाश्च इत्यलम् / बायरपजत्ते तिन्नि उरलवेउब्वियदुगं च // 7 // (यशो०) बादरपर्याप्तैकेन्द्रियस्य पृथिव्यादेरौदारिककायये गः / वैक्रियो वैक्रियमिश्रश्च बादरपर्याप्तवायुकायिकं प्रतीत्य / तथाहि-अस्य वैक्रियलब्धिमतो वैक्रियः, क्रियारम्भत्यागकालयोरौदारिकेण मिश्रो वैक्रियो वैक्रियमिश्रः, स च योगः प्राप्यते / अत्रौदारिकवैक्रिययोमिश्रतायां समायामपि प्रारम्भकाले प्रारभ्यमाणत्वेन त्यागकाले च बहुव्यापारत्वेन वैक्रियस्य प्राधान्याद्वैक्रियमिश्र इति व्यपदेशो, न त्वौदारिकमिश्र इति / 'विउव्वगाहारगे उरलमिस्स' मिति वक्ष्यमाणोक्तेः / अन्ये तु वायोक्रियारम्भकाले वैक्रियेण मिश्र औदारिकमिश्र इति व्यप दिशन्ति / बहुव्यापारत्वेनौदारिकस्य प्राधान्यविवक्षया / / / अथाद्याढेन योगान्समर्थयन् जीवस्थानेष्वेवोपयोगानाह उरलं सुहुमे चउसु य भासजुयं पनरसा वि सन्निभि / उवओगा दससु तओ अचक्खुदंसणमनाणदुगं // 8 // (यशो०) पजत्त' इति प्रागुक्तानुवृत्या सूक्ष्मे पर्याप्त औदारिकः, चतुर्यु च द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु भाषयाऽसत्यामृषारूपया युक्त औदारिकः, चः पुनरर्थत्वात् संज्ञिनि पर्याप्ते पुनः पञ्चदश चतुर्विधमनश्चतुर्विधवाक्सप्तविधकायरूपा योगाः / तत्र वैक्रियमिश्रो गर्भजतिर्यग्मनुष्ययोर्लब्धिमतो_क्रियस्या-ऽऽरम्भकाले त्यागकाले च / लब्धिपर्याप्तस्य च पर्याप्तग्रहणेन ग्रहणादुत्पद्यमानयोरपर्याप्तयोदेवनारकयोरपि वैक्रियस्यारम्भकाले पर्याप्तयोस्तूभयोरुत्तरक्रियारम्भकाले च वैक्रियमिश्रः ।आहारकमिश्रस्तु लब्धिमतां संयतानामाहारकस्यारम्भकाले त्यागकाले च मन्तव्यः। अन्ये तु तिर्यग्मनुष्ययोक्रियस्यारम्भकाले,संयतानामा ऽऽहारकस्यारम्भकाले / केचित्तु तयोः त्यागकाले औदारिकमिश्रमिति मन्यन्ते / औदारिकमिश्रस्तु केवलिसमुद्धाते सप्तमषष्ठ-द्वितीयसमयेषु / कार्मणयोगः पुनस्तत्रैव चतुर्थ-पञ्चमतृतीयसमयेषु द्रष्टव्यः / शेषयोगास्तु सुझाना एव / 'तओ' इति त्रय उपयोगा दशसु पर्याप्तापर्याप्तेषु सूक्ष्मवादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियेषु अपर्याप्तयोस्तु चतुरिन्द्रियासंज्ञिपञ्चेन्द्रिययोः त्रय इति व्याचष्टे। 'अचक्खुदंसणमनाणदुग' मिति अचक्षुषा-चक्षुर्वर्जेन्द्रियैर्दर्शनं सामान्यांशग्राही बोधोऽचक्षुर्दर्शनं पर्याप्तेषु इन्द्रियानाश्रितसामान्योपयोगमात्ररूपं चापर्याप्तेषु। अज्ञानद्विकं मत्यज्ञानश्रुताज्ञानरूपम् / तत्रास्य द्विकस्य द्वीन्द्रियादिषु सद्भावः सूपपादः / एकेन्द्रियेषु स्पर्शनावरणक्षयोपशमसमुत्थाया मतेर्भाषाश्रोतेन्द्रियलन्ध्यमावेपि भावेन्द्रियप्रसूतस्यानभिव्यक्तशब्दार्थोल्लेखोपप्लावितोपलब्धिरूपस्य