________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे श्चिन्मतेन शरीरपर्याप्त्या वा पर्याप्तका गृह्यन्त” इति विवृत्तिः। ततः शरीरपर्याप्त्यापि पर्याप्ताः पर्याप्ता उच्यन्ते / तेनेन्द्रियादिपर्याप्तीरपेक्ष्याऽपर्याप्तानां शरीरपर्याप्त्या पर्याप्तानामौदारिककाययोगं केचिदाचक्षते / तथा चाऽऽचाराङ्गस्य लोकविषयाख्यद्वितीयाध्ययनप्रथमोई शके पञ्चदशभेदमनोवाकायलक्षणप्रयोगकर्मविचारे “औदारिककाययोगास्तियंग्मनुष्योः शरीरपर्याप्तरूद्ध" मिति विवरणम् / नत्येवं सुरनारकाणां वैक्रियकाययोगः कथं नेष्यते ? / पर्याप्ता हि द्विधा, लब्धितः करणतथ / ततस्तत्र [कृता?]लब्ध्यपर्याप्तानामौदारिकः काययोगो विवक्षितः, लब्ध्यपर्याप्तास्तु देवनारका न भवन्तीति तेषां वैक्रिययोगाऽप्रसङगः / करणापर्याप्तानां सुरनारकागां वैक्रियकाययोगो नरतिरश्वां च औदारिककाययोगो न विवक्षित इति / "बित्ति अपजत्ताण वि" इत्यौदारिकस्यैवोक्तेरेवानुमीयते / अथवा वैक्रियशरीरिणः शरीरपर्याप्तिरान्तमौह तिकी, शेषाः पश्च सामायिक्य इति / संज्ञिनोऽपर्याप्तकस्य स्वल्पकालत्वेन वैक्रियं न विवक्षितमिति / लब्धितः करणतश्च पर्याप्तापर्याप्तयोरयं विशेषः-यः स्वपर्याप्तीरसमाप्य म्रियते स लब्ध्यपर्याप्तः / स च 'आइतिए न त्थ. अपज्जत्तो' इति वचनादाद्यं पर्याप्तित्रिकं समाप्यैव म्रियेत इति दृश्यम् / यस्मादागामिभवायुष्कं बद्ध्व म्रियते / तच समापिताद्यपयोतित्रिकेणैव बध्यते, यत औदारिकवैक्रियाहारककाययोगे विशिष्टे परभवायुर्वन्धः / तद्विशिष्टता च न शरीरपर्याप्त्यैव किन्तु शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तस्य, अन्यथैकेन्द्रियादिव्यपदेशस्याप्यभावप्रसङ्गः / तद्विपरीतो लब्धिपर्याप्तः / यः पुनरुच्छवासादिकाः स्वस्वविषयेषु परिणमनं प्रतिसाधकतमत्वेन करणापरपर्यायाः पर्याप्ती द्यापि पूरयति परं पूरयिष्यति स करणापर्याप्तः / यः पूरेतनिजपर्याप्तिः स करणपर्याप्तः / तत्र सुरनारकासंख्यातवर्षापुर्नरतिर्यगुत्तमपुरुषचरिमशरीरिणो लब्धितः पर्याप्ता एव भवन्ति,निरूपक्रमायुष्कत्वेनापर्याप्तदशायां मरणाभावात् / निरूपक्रमसोपक्रमायुष्कता चैवम्-यदा जन्तुः स्वायुषस्त्रिभागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्याश्च, उत्कृष्टतः सप्तभिरष्टाभिर्वा करायुःकर्माण ग्रहणरूपरन्तमुहूर्तप्रमाणेन कालेन जीवप्रदेशरचनानाडिकान्तवर्तिन आयुःकर्मवर्गणापुद्गलान्विशिष्टवीर्ये ग करोति, तदा निरूपक्रमायुर्भवति / अन्यदा तु सोपकमायुष्क इत्या.ऽऽचारटीका / आयुषि सप्तभिरष्टाभिर्वाकर्गवामिव मरुषु जगलं दूषग्रहणरूपैर्यत्पुद्गलोपादानं तदतिदृढमित्यपवर्तयितुमशक्यतया निरुपक्रममुच्यते / यत्तु पद्भिः पञ्चभिचतुर्भिर्वा आगृहीतं दलिऊं तदपवर्त्तनाकरणेनोपक्रम्यत इति सोपक्रममिति बृहदुत्तराध्ययनटोकेति / करणतस्त्वमौ उभयथापि स्युः / अत्र संग्रहगाथा:"सो लद्धिअपजत्तो जो मरइ अपूरिउ अपज्जत्तो लद्धिपजत्तो सो पुण जो मरई ताउ पूरित्ता // 1 // नजवि पूरेइ परं पूरिस्सइ स इह करणअपजत्तो। सो पुग करणपजत्तो जेणं ता पूरया हुन्ति // 2 // रइयसुरासंखाउतिरियनरचरिमतणुपवरपुरिसा / लद्धिाजत्ता नियमा करणेणं हुन्ति हुविहा वि // 3 // "