SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ जीवस्थानेषु गुणस्थानानि योगाश्च गुणस्थानान्यादिः-प्रथमं यस्य योगादिस्थानसप्तकस्य तत्तथा, तावच्छद्रः क्रमार्थः / ततो जीवस्थानेषु गुणस्थानानि ततो योगास्तत उपयोगा इत्यादि / 'बायरे' ति सूचकत्वात्सूत्रस्य बादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियासंक्षिपञ्चेन्द्रिया इति दृश्यम् / तच्च समाहारद्वन्द्वाश्रयणाल्लुप्तसप्तम्येकवचनान्तम् / एवमन्यत्रापि / एकादश समुदायव्यपदेशविभक्तिलोपावभ्यूह्यौ / ततश्च नादरादिष्वसंज्ञिपर्यवसानेष्वपर्याप्तेषु पञ्चसु 'पढमगुणे ति प्रथमे मिथ्यात्वसास्वादनरूपे गुणस्थाने भवतः / नवप्रथमगुणस्थानमेतेषु प्रतीतम् . द्वितीयं तु करणापर्याप्तबादरैकेन्द्रियादिषु बद्धायुषः संक्षिपञ्चेन्द्रियस्य पर्यन्त औपशमिकसम्यक्त्वमवाप्य तदैव वमतो मिथ्यात्वं चाऽप्राप्नुवतस्तेष्वे. वोत्पद्यमानस्य जघन्यतः समयमुत्कृष्टः पडावलिका भवतीति कार्मग्रन्थिकमतम् / यत्तु उभवा (या)भावो पुढवाइएसु" इति वचनात्तु सम्यक्त्वश्रुतादिसामायिकानामुभयस्य पूर्वप्रतिपन्नप्रति पद्यमानरूपस्यैकेन्द्रियेष्वन्तर्भाव इति सिद्धान्तमतम् / तदिह नाश्रितमिति 'नेगिंदिसु सासाणोत्ती' ति स्वयमेव वक्ष्यति / 'सन्निअपजत्ते' ति अत्र मिथ्यादृष्टिसास्वादने पूर्ववत् , अविरतसम्यगदृष्टिगुणस्थानसद्भावस्तु कस्यचिदप्रतिपतितसम्यक्त्वस्य करणापर्याप्तसंज्ञियूत्पद्यमानस्य / 'सव्वे समित्ति सर्वाणि चतुर्दशाऽपि संजिनि पर्याप्त प्राप्यन्ते, नानाजीवानपेक्ष्य सयोगिनि च संज्ञीति व्यवहारो द्रव्यमनोऽपेक्षया, अयोगिनि तु भूतपूर्वमनो-ऽपेक्षया / सेसे 'स्विति उक्तातिरिकनेषु सप्तसु पर्याप्तापर्याप्त सूक्ष्मैकेन्द्रिये वादरैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंक्षिपञ्चेन्द्रियेषु तु पर्याप्तेष्वित्यर्थ // 4-5 // अर्थतेष्वेव जीवस्थानेषु [प्रयोगान्योजयमाह जोगा लसु अप्पज्जत्तएसु कम्मइगउरलमिस्सा दो। वेउब्बियमीसजुया सनिअपजत्तए तिनि // 6 // (यशो०) षट्सु अपर्याप्तेषु (अ)पर्याप्तसंज्ञिपञ्चेन्द्रियवर्जेषु योगी कार्मणौदारिकमिश्रौ / तत्रैतेषामृजुगतिविग्रहग[तिउ](त्यु)त्पतिप्रथमसमयवर्तिनों काणकाययोगः / उत्पत्तिप्रथमसमयादपरसमयगताना पर्याप्तरसमर्थयमानानामौदारिक मिश्रं कामणेन यत्र तत्तथा, तद्भवति / तावेव पूर्वोक्तौ वैक्रियं मित्रं कार्मणेन यत्र तत्तथा, तेन युती सहिताविति त्रयो योगाः संझिन्यपर्याप्ते भवन्ति / तत्र वैक्रियमिश्रयोगोऽस्य देवनारकेषत्पद्यमानस्य बोद्धव्यः // 6 // अथाद्यार्द्धन मतान्तरमाह बिंति अपजत्ताण वि तणुपजत्ताण केइ ओरालं। (यशो.)इह सूत्रकृदङ्गत्य द्वितीयश्रुतस्कन्धे भाहारपरिज्ञाख्यतृतीयाध्ययने ओया. हारा जीव सव्वे अपजत्तगेति नियुक्किंगाथायां पय प्तकास्तु इन्द्रियादिभिः पर्याप्तिभिः पर्याप्तकः केषा
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy