________________ गुणस्थानेष्वल्पबहुत्वम् / 255 उपसंतजिणा थोवा, संखेजगुणा उ खीणमोहजिणा। सुहुमनियट्टिनियट्टी, तिन्नि वि तुल्ला विसेसहिया 184 // जोगिअपमत्तइयरे, संखगुणा देससासणा मिस्सा / अविरयअजोगिमिच्छा, असंख चउरो दुवेऽणंता // 85 // ___ (हारि०) व्याख्या-उपशान्तजिनाः स्तोकाः, यतस्ते प्रतिपद्यमानकाश्चतुष्पञ्चाशत्प्रमाणा एव प्राप्यन्ते, तेभ्यः संख्येयगुणाः क्षीणमोहजिनाः, यतस्तेऽष्टोत्तरशतसंख्या एकसमये प्रतिपद्यमाना लभ्यन्ते / एते द्वयेऽपि यदोत्कृष्टपदे लभ्यन्ते तदा ज्ञेयाः, कदाचिद्विपर्ययेणापि स्युः क्षीणमोहाः स्तोका उपशान्तमोहास्तु बहव इति / ततो विशेषाधिकाः, क एते ? सूक्ष्मसंपरायानिवृत्तिनिवृत्तिबादरास्त्रयोऽपि स्वस्थाने तुल्याः, तुल्यत्वादेतद् णस्थानकायस्यारम्भकाणामिति // 84 // इतो द्वितीयगाथा व्याख्यायते- तेभ्यो योग्यप्रमत्तेतरे इति द्वन्द्वः / इतरः प्रमत्तो गृह्यते, संख्यातगुणाः, यतः सयोगिकेवलिना कोटीपृथक्त्वं प्राप्यते / अप्रमत्तप्रमत्तगुणस्थानकवतां तु कोटीसहस्रपृथक्त्वं सामायिके कोटीशतपृथक्त्वं छेदोपस्थापनीये परमप्रमत्तान्तमुहूर्त लघु प्रमत्तान्तमुहूर्त बृहत्प्रमाणम् , इत्यतो यथोक्तं संख्यातगुणत्वं लभ्यते / ततो देशविरतसासादनमिश्राऽविरतायोगिमिथ्यादृष्टयः क्रमेणासंख्याश्चत्वारो द्वयेऽनन्ताः / भावना त्वेवम्-प्रमत्यतिभ्योऽसंख्यातत्वाद्देशविरतितिर्यग्मनुष्याणाम् / सासादनास्तु कदाचित्सर्वथैव न भवन्ति, यदा तु भवन्ति तदा जघन्यपदे एको वा द्वौ वा यावदुत्कृष्टतो गतिचतुष्टयसंभवित्वादेशविरतेभ्योऽसंख्येयगुणा भवन्ति / मिश्रा यदा भवन्ति तदोत्कृष्टतः सासादनेभ्योऽसंख्यातगुणाः, उत्कृष्टतोऽपि पडावलिकाप्रमाणत्वात्सासादनाद्धायाः, मिश्राद्धायास्त्वन्तमुहूर्तप्रमाणत्वादिति / मिश्रेभ्योऽसंख्येयगुणा अविरतसम्यग्दृष्टयः, चतुर्गतिषु सर्वकालभावित्वात्तेषामिति / तेभ्योऽनन्तगुणा अयोगिनः, अयोगिग्रहणेन चात्र सिद्धा अपि गृहीताः, यतोऽयोगिनो भवस्थाभवस्थ. भेदेन द्विविधा भवन्ति / तेभ्योऽनन्तगुणा मिथ्यादृष्टयः, पृथिव्यादिसाधारणमिथ्यादृष्टीनामनन्तत्वात् / इति गाथार्थः // 85 // इत्युक्तमल्पबहुत्वम् , तद्भणनाचोक्त' यथाप्रतिज्ञातं समस्तमभिधेयजातम् / साम्प्रतं प्रकरणस्यादेयताख्यापनार्थ प्रकरणकारो गुणनिष्पन्नं स्वनाम सूचयन्नुपदेशमाह (मल०) उपशान्तजिना-उपशान्तवीतरागाः स्तोकाः, यतस्ते प्रतिपद्यमानका उत्कर्षतोऽपि चतुष्पश्चाशत्प्रमाणा एव प्राप्यन्त इति / तेभ्यः सकाशात्पुनः क्षीणमोहजिनाः संख्येयगुणाः, यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरशतप्रमाणा अपि लभ्यन्ते / एतच्चैवमाचार्येणाभिहितमुत्कृष्टपदापेक्षया, अन्यथा कदाचिद्विपर्ययोऽपि द्रष्टव्यः / स्तोकाः क्षीणमोहाः,वहवस्तु