________________ 258 1 पडशीतिनाम्नि चतुर्थे कर्मग्रन्थे त्मीयमायुर्न भवति तावत्सर्वेऽप्यमी निरन्तरमष्टावपि प्रकृतीरुदीरयन्ति, तदुदीरणायोग्याध्यवसायस्य सर्वेष्वपि भावात् / अद्धावलिकावशेष आयुषि सप्तैव प्रकृतीरुदीरयन्ति न त्वायुष्कम् / सम्यग्मिथ्यादृष्टिस्तु अष्टावेवोदीरयति न तु कदाचनापि सप्तेति, सम्यग्मिथ्यादृष्टेरायुष आव लिकावशेषताया अभावात् , स ह्यायुष्कान्तमुहूर्तावशेष एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति / अप्रमत्तादयस्त्रयः षट् कर्माण्युदीरयन्ति, अतिविशुद्धत्वेन वेदनीयायुरुदीरणायोग्याध्यवसायाभावात् / सूक्ष्मसंपरायस्तु पड्विधोदीरकस्तावद् यावन्मोहनीयमावलिकावशेषं न भवति, तदवशेषे तु तस्मिन् पञ्चविधोदीरक एवेति / उपशान्तमोहस्तु पूर्वोक्तपश्वविधोदीरक इति / क्षीणमोहस्तु ज्ञानावरणदर्शनावरणान्तरायेष्वावलिकावशेषे तु द्विविधोदीरकः, पूर्व तु पञ्चविधोदीरक इति / सयोगिकेवली पुनर्द्विविधोदीरक एव, यतो वेद्यमानमेव कर्मोदीयते / तत्र घातिचतुष्टयस्य क्षीणत्वाद्वेदनमेव नास्ति, कुतस्तदुदीरणम् ? वेदनीयायुषोस्तूदीरणा प्रागेवोपरतेति / अयोगिकेवली तु न किंचिदुदीरयति, उदीरणस्य योगसव्यपेक्षत्वात् , तस्य च तदभावात् / इति गाथार्थः // 3 // इत्युक्तोदीरणा / अथाल्पबहुत्वमाह (मल०) सूक्ष्मः सूक्ष्मसंपरायः षट् पञ्च वा कर्माण्युदीरयति / तत्र षडनन्तरोक्तानि तानि च तावदुदीरयति यावन्मोहनीयमावलिकावशेषं न भवति, आवलिकावशेष ·च मोहनीये तस्याप्युदीरणाया अभावात् शेषाणि पश्च कर्माण्युदीरयति / 'पंच उवसंतु' इति उपशान्त= उपशान्तमोहः पञ्चकर्माण्युदीरयति न वेदनीयायुर्मोहनीयानि / तत्र वेदनीयायुषोः कारणं प्रागेवोक्तम् / मोहनीयं तदुदयाभावानोदीर्यते 'वेद्यमानमेवोदीर्यते' इतिवचनात् / 'पंच दो वीणो' इति क्षीणः क्षीणमोहोऽनन्तरोक्तानि पश्च कर्माण्युदीरयति, तानि च तावदुदीरयति यावज्ज्ञानदर्शनावरणान्तरायाणि आवलिकाप्रविष्टानि न भवन्ति, आवलिकामात्रप्रविष्टेषु तु तेषु तेषामप्युदीरणाया अभावाद् द्वे एव नामगोत्रलक्षणे कर्मणी उदीरयति / 'जोगी उ नामगोए' इति योगीतु-सयोगिकेवली पुनर्नामगोत्रे उदीरयति, न शेषाणि, घातिकर्मचतुष्टयं हि निमूलत एव क्षीणमिति न तस्योदोरणासंभवः, वेदनीयायुषोस्तूदीरणा पूर्वोक्तकारणादेव न भवतीति / ' 'अजोगि अणुदीरगो भयवं' इति अयोगिकेवली भगवान् अनुदीरकोज किंचिदपि कोंदीरयति, योगसव्यपेक्षत्वादुदीरणायाः, तस्य च योगाभावात् // 3 // इत्युक्ता गुणस्थानकेधूदीरणास्थानयोजना / साम्प्रतमेतेष्वेव वर्तमानानां जन्तूनामन्पबहुत्वमाह