________________ गुणस्थानेषु बन्धोदयसत्तोदीरणास्थानानि [ 257 मष्टौ / 'क्षीणे' क्षीणमोहगुणस्थानके सत्तायामुदये च सप्त कर्मप्रकृतयः, मोहनीयस्य क्षीणत्वात् / 'चत्तारि सेसेसु' इति प्राकृतत्वाद् द्वित्वेऽपि बहुवचनम् / शेषयोः सयोग्ययोगिकेवलिगुणस्थानकयोरुदये सत्तायां चतस्रोऽघातिक प्रकृतयो भवन्ति, घातिकर्मचतुष्टयस्य क्षीणत्वात् // 8 // उक्ता सत्तोदयस्थानकयोजना | साम्प्रतमुदीरणास्थानानि योजयन्नाह सत्तट्ठ पमत्ता, 'कम्मे उइरिति अट्ठ मीसो उ / . वेयणियाउ विणा छ उ, अपमत्तअपुवअनियट्टी // 2 // (हारि०) व्याख्या-सप्ताष्ट वा कर्माण्युदीरयन्तीति सण्टङ्कः / क एते ? प्रमत्तान्ताः पञ्च मिश्रवर्जाः, तस्य पृथग्भणनात् / तदेवाह-'अट्ठ मीसो उ' इति अष्टावेव वचनव्यत्ययादुदीरयति मिश्रः, तुरेवकारार्थो योजित एव / तथा विभक्तिलोपावेदनीयायुभ्यां विना षट् कर्माण्युदीरयन्ति / क एते ? अप्रमत्तापूर्वानिवृत्तिबादरा इति द्वन्द्वः / इति गाथार्थः / / 82 / / तथा-- (मल०) मिथ्यादृष्टिप्रभृतयः प्रमात्तान्ता यावदद्याप्यनुभूयमानभवायुरावलिकावशेषं न भवति तावत्सर्वेऽप्यमी निरन्तरमष्टावपि कर्माण्युदीरयन्ति, आवलिकावशेषे पुनरनुभूयमानभवायुषि सप्तैव, आवलिकावशेषस्य कर्मण उदीरणाया अभावात्तथास्वाभाव्यात् / 'अट्ठ मोसो उ' इति मिश्रस्तु सम्यग्मिथ्यादृष्टिः पुनरष्टावेव कर्माण्युदीरयति; न तु कदाचनापि सप्त, सम्यग्मिध्यादृष्टिगुणस्थानके वर्तमानस्य सत आयुष आवलिकावशेषाभावात् / स हि अन्तमुहूर्तावशेषायुष्क एव तद्भावं परित्यज्य सम्यक्त्वं मिथ्यात्वं वा नियमात्प्रतिपद्यत इति / तथाऽप्रमत्तापूर्वकरणानिवृत्तिवादरा वेदनीयायुषी वर्जयित्वा शेषाणि षट् कर्माण्युदीरयन्ति न तु वेदनीयायुषी, अतिविशुद्धतया तदुदीरणायोग्याध्यवसायस्थानाभावात् // 2 // सुहमो छ पंच उइरेइ पंच 'उवसंतु पंच दो खीणो। .. जोगी उ नामगोए, अजोगि 'अणुदीरगो भयवं // 3 // (हारि०) व्याख्या-सूक्ष्मसंपरायः षट् पञ्च वोदीरयति / तथा पञ्चोपशान्तमोहः / तथा पञ्च द्वे वा क्षीणमोहः / तथा योगी सयोगिकेवली तुरेवकारार्थः, उत्तरत्र योक्ष्यते, नामगोत्रे एव / तथाऽयोगी अनुदीरको न किंचिदुदीरयति भगवान् पूज्य इति / सप्ताष्टषडादिपदभावना त्वेवं द्रष्टव्या-इह मिथ्यादृष्टेः प्रभृति यावत्प्रमत्तसंयतो यावदद्याप्यावलिकावशेषमात्मीया 1 "कम्मउईति" इत्यपि पाठः / 2 "उई रेइ" इत्यपि पाठः / 3 "उवसंत' इत्यपि / 4 अणुदीरणं। मगवं" इत्यपि।