SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 356] - षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे / (हारि०) व्याख्या-'अप्रमत्तान्ताः' इत्युक्ते मिथ्यादृष्टिप्रभृतय इति लभ्यन्ते / तत एते पडू मिश्रवजास्तस्य पृथग्भणनात्सप्ताष्टौ वा बध्नन्तीति संबन्धः / तथा मिश्रापूर्वबादरात्रयोऽपि सप्त बध्नन्तीति / तथा षट् सूक्ष्मसंपराया बध्नन्ति / तथैकमुपरितना उपशान्तक्षीणमोहसयोगिकेवलिनः / तथा 'अबन्धगोऽजोगी' इति अयमर्थः-सप्तविधवन्धका आयुर्वन्धवर्जाः षड्विधबन्धका मोहायुबॅन्धवर्जिता एकविधवन्धकाः सातमेवेकं बध्नन्ति / इति गाथार्थः // 8 // इति बन्धस्थानयोजना गुणस्थानकेषूक्ता 6 / अथोदयसत्तास्थानद्वयं तेष्वेव निरूपयन्नाह_ (मल०) मिथ्यादृष्टिप्रभृतयोऽप्रमात्तान्ताः सप्ताष्टौ वा कर्माणि बध्नन्ति, आयुर्वन्धकालेऽष्टौ, शेषकालं तु सप्तैव / 'मोसअप्पुव्ववायरा' इति मिश्रापूर्वकरणानिवृत्तिवादराः सप्तैव . बध्नन्ति, तेपामायुर्वन्धाभावात् / तत्र मिश्रस्य तथास्वाभाव्यात् , इतरयोस्त्वतिविशुद्धत्वात् , आयुर्वन्धस्य च घोल नापरिणामनिमित्तत्वात् / 'छ सुहुमो' इति सूक्ष्मपरायो मोहनीयायुर्वर्णानि पद कर्माणि वनाति, मोहनीयबन्धस्य बादरकषायोदयनिमित्तत्वात् , तस्य च तदभावादायुर्वन्धाभावस्त्वतिविशुद्धन्वादवसेयः / 'एगमुवरिमा' इति एकं सातवेदनीयलक्षणं कर्मोपरितना उपशान्तमोहक्षीणमोहसयोगिकेवलिनो बध्नन्ति न शेषाणि, तद्वन्धहेत्वभावात् / 'अबन्धगोऽजोगो' इति अयोगी=अयोगिकेवली योगस्यापि बन्धहेतोरभावादबन्धकः // 80 // , उक्ता गुणस्थानकेषु बन्धस्थानयोजना / साम्प्रतमेतेषूदयसत्तास्थानयोजनां निरूपयन ह जा सुहुमो ता अट्ठवि, उदए संते य होंति पयडीओ। . सत्तऴ्वसंते खीणि सत्त चत्तारि सेसेसु // 81 // (हारि०) व्याख्या-मिथ्यादृष्टेरारभ्य यावत्सूक्ष्मसंपरायस्तावदष्टावपि, किम् ? 'उदए संते य' इति उदये सत्तायां च 'भवन्ति' जायन्ते प्रकृतयः कर्मणामिति शेषः / तथा सप्ताष्टी चोपशान्ते, सप्त उदयेऽष्टौ सत्तायामित्यर्थः / तथा 'क्षीण क्षीणमोहे -मोहवर्जा उदये सत्तायां च सप्तेति / तथा चत्वार्यघातिकर्माणीति शेषः / शेषयोः सयोग्ययोगिकेवलिगुणस्थानक्योरुदये सत्तायां च भवन्तीति सर्वत्र योज्यम् / इति गाथार्थः / / 81 // ___ इत्युदयसत्तास्थानानि निरूपितानि गुणस्थानकेषु / 81 / साम्प्रतमुदीरणास्थानानि तेष्वेव योजयन्नाह (मल०) मिथ्यादृष्टिगुणस्थानकमारभ्य यावत्सूक्ष्मसंपरायगुणस्थानं ताबदष्टावपि कर्मप्रकृतय उदये सत्तायां च प्राप्यन्ते / उपशान्तमोहगुणस्थानके उदये सप्त कर्मप्रकृतयः, सत्ताया- .
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy