________________ मूलप्रकृतयस्तेषां बन्धोदयोदीरणासत्तास्थानानि [243 व्यापाराहतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः, ज्ञानं च दर्शनं च तयोरावरणे, तथा वेद्यते सातसातरूपेणेति वेदनीयम् , यद्यपि च सर्व कर्म वेद्यते, तथाऽपीह पङ्कजादिशब्दवद्वेदनीयशब्दस्य रूढिविषयत्वात्सातासातरूपमेव कर्म वेदनीयं न शेषम् , ज्ञानदर्शनावरणे च वेदनीयं च तानि / मोहयतीति मोहनीयं, मिथ्यादर्शनादि / चः समुच्चये / आयात्यागच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिकुगतेर्निष्क्रमितुमनसो जन्तोरित्यायुः / नामयति गत्यादिविविधभावानुभवनं प्रति जीवं प्रवणयतीतिनाम, गतिजात्यादि / गूयते शब्दयते उच्चावच्चैः शब्दैरात्मा यस्मात्तद्गोत्रम् / अन्तरा दातृप्रतिग्राहकयोरन्तर्विघ्नहेतुतयाऽयते गच्छतीत्यन्तरायं दानान्तरायादि // 78 // तदेवं बन्धहेतुभ्यो यानि कर्माणि बध्यन्ते तान्युपदी, साम्प्रतमेतेष्वेव बन्धादिस्थानसंख्यामाह 'सत्त'ठुछेग बधा, संतुदया 'अट्ठसत्तचत्तारि / 'सत्त''छपं च दुगं, उदीरणाठाणसंखेयं // 79 // (हरि०) व्याख्या-सप्ताष्टपडेकविधबन्धभेदाच्चत्वारि बन्धस्थानानि 4 / अष्टसप्तचतुविधसत्ताभेदात् त्रीणि सत्तास्थानानि 3 / एवमुदयस्थानान्यपि त्रीणि 3 सप्ताष्टषट्पञ्चद्विविधोदीरणाभेदात्पश्चसंख्योदोरणास्थानानि 5 / इति गाथार्थः / 79 // अर्थतानि गुणस्थानकेषु योजयति (मल०) चत्वारि बन्धस्थानानि / तद्यथा-सप्ताष्टौ पडेकमिति / तत्र यदाऽऽयुर्न बध्यते तदा सप्त, शेषकालं त्वष्टौ / आयुमोहनीयबन्धव्यवच्छेदे षड् / ज्ञानदर्शनावरणान्तरायनामगोत्रबन्धस्य व्यवच्छेदे चैकमिति / त्रीणि सत्तास्थानानि / तद्यथा-अष्टौ सप्त चत्वारि / तत्राष्टौ प्रतीतानि / मोहनीयसत्ताक्षये सप्त / ज्ञानादर्शनावरणान्तरायसत्ताक्षयेऽपि चत्वारि / उदयस्थानान्यपि त्रीणि / तद्यथा-अष्टौं सप्त चत्वारि / तत्राष्टानामुदयः सर्वसंसारिणामुपशान्तमोहादौ / मोहनीयोदयव्यवच्छेदे सप्तानाम् / घातिकर्मक्षये तु चतुर्णामिति / उदीरणास्थानानि पञ्च / तद्यथा-सप्ताष्टौ षट् पश्च द्वे इति / तत्रायुष उदीरणायामपगतायां सप्तानाम् / आयुरप्युदीरयतामष्टानाम् / वेदनीयायुषोरुदीरणायामपगतायां षण्णाम् / वेदनीयायुर्मोहनीयो. दीरणायामपगतायां पश्चानाम् / नामगोत्र एव केवले उदीरयतो द्वयोरुदीरणेति / इयं बन्धादीनां स्थानसंख्या // 79 // साम्प्रतं बन्धस्थानानि गुणस्थानकेषु योजयन्नाह अपमत्तंता सत्तट्ठ मीसअप्पुब्वबायरा सत्त / बंधति छ सुहुमो एगमुवरिमा बंधगोऽजोगी // 8 //