________________ 254 ] षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीतेषु शेषा एकोनचत्वारिंशद्वन्धहेतवो भवन्ति / ननु देशविरतस्त्रसासंयमात्संकल्पजादेव नित्तो न त्वारम्भजात् , तत्कथमेषोऽत्रापनीयते ? इति, नैष दोषः, आरम्भेऽपि तस्य यतनया प्रवर्तमानत्वेन तनिमित्तस्य त्रसासंयमस्य सतोपीहाविवक्षणात् / तथा प्रमत्तगुणस्थानके पविशतिर्बन्धहेतवः, यत इहैकादशधाऽविरतिः प्रत्याख्यानावरणचतुष्टयं च न संभवति, आहारकद्विकं च संभवति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेपनीते द्विके च तत्र प्रक्षिप्ते पविशतिरेव भवति / तथाऽप्रमत्तस्य लब्ध्यनुपजीयनेनाहारकवैक्रियानारम्भादाहारकमिश्रवैक्रियमिश्रलक्षणे द्विके पड्विशतेरप्यपनीते शेषाश्चतुर्विंशतिबन्धहेतवोऽप्रमत्तगुणस्थानके भवन्ति / अपूर्वकरणगुणस्थानके तु वैक्रियाहारके अपि न संभवतः, इत्यनन्तरोक्तायाश्चतुर्विशतेबैंक्रियाहारकरूपे द्विकेऽपनीते शेषा द्वाविंशतिबन्धहेतवः / तथा हास्यादिषट्कस्यापूर्वकरणगुणस्थानक एव व्यवच्छिन्नत्वादनिवृत्तिवादरसंपरायगुणस्थानके द्वाविंशतेः षट्केऽपनीते शेषाः षोडश बन्धहेतवो भवन्ति, ते च "वेदत्रय संज्वलनचतुष्टयौ'दारिककाययोग''चतुर्विधवाग्योग"चतुर्विधमनोयोगरूपा द्रष्टव्याः / तथा सूक्ष्मसंपरायगुणस्थानके वेदत्रये क्रोधादित्रये चानिवृत्तिवादर एव व्यवच्छिन्नत्वात्पोडशकादपनीते शेषा दश बन्धहेतवो भवन्ति / उपशान्तमोहगुणस्थानके नव बन्धहेतवः, लोभस्य सूक्ष्मसंपराये व्यवच्छिन्नत्वात् अत एव क्षीणमोहगुणस्थानकेऽपि, सयोगिकेवलिगुणस्थानके सत्यासत्यामृपामनोयोगसत्यासत्यामृषावाग्योगकार्मणौदारिकतन्मिश्रलक्षणाः सप्त बन्धहेतवो भवन्ति / 'न उ अजो. गिम्मि' इति अयोगिकेवलिगुणस्थानके तु न कश्चिद्वन्धहेतुः, योगग्यापि व्यवच्छिन्नत्वात् // 77 // उक्ता बन्धहेतवः / साम्प्रतं येषां कर्मणामते बन्धहेतपस्तेगामेतेभ्यो बन्धमुपदर्शयन्नाह-- तो 'नाण'दसणावरण वेयणीयाणि "मोहणिज्जं च / 'आउय नाम गोयं तरायमिइ अट्ठ कम्माणि // 7 // (हारि०) व्याख्या-'तो' इति तेभ्यो मिथ्यात्वादिभ्यः सकाशाज्ज्ञानदर्शनावरणवेदनीयानीति द्वन्द्वः / तथा मोहनीयं च / आयुनामेति समाहारद्वन्द्वः / तथा गोत्रान्तरायमित्यत्रापि समाहारद्वन्द्वः / इत्येतान्यष्टौ कर्माणि बध्यन्त इति शेषः / इति गाथार्थः // 8 // अधुनैषां बन्धादिस्थानसंख्यामाह (मल०) 'तो' इति तेभ्योऽनन्तरोक्तभ्यो बन्धहेतुभ्यः 'इति' अमून्यष्टौ कर्माणि बध्यन्त इति शेषः / कानि ? इत्यत आह-'णाण' इत्यादि ज्ञायतेऽनेन ज्ञप्तिर्वा ज्ञानम् , सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मकोऽवबोधः, दृश्यतेऽनेन दृष्टिा दर्शनम्', सामान्यावबोधात्मकं चक्षुर्दर्शनादि, आप्रियते-आच्छाद्यतेऽनेनेत्यावरणम् , मिथ्यात्वादिसचिवजीव