________________ [ 253 _ गुणस्थानकेषु बन्धहेतवः भवति, पूर्वोक्तनवकमध्यान्मृषामिश्ररूपे मनोद्वये एवं वाग्द्वये चापनीते औदारिकमिश्रकार्मणे च क्षिप्ते सति / तथाऽयोगी तु प्रत्ययाभावादबन्धकः / अयमों गाथाभिरपि कथ्यते शिष्यानुग्रहार्थम्-आहारगदुगहोणा, पणवन्ना होइ मिच्छदिहिम्मि 55 / सा मिच्छपणगहोणा, पन्नासा तह य सासाणे 50 / / 1 / / सा चउणंतकसाया 4, ओरालविउवि. मोस कम्मइगं / इय सत्तगेण रहिया, तेयाला मीसगुणठाणे 43 // 2 // ओरालियवे उव्वियमीसदुगं तह य कम्मणसरीरं / एय निगेणं सहिया, अविरयसंमंमि छायाला 46 // 3 // ओरालमोसकम्मणचउपोयकसायतसअविरई य / इय सत्त गेण रहिया, इगुयाला देसविरइयंमि 39 // 4 // तइयकसायचउक, एक्कारस अविरई य 'मोत्तण / आहारगदुगसहिया, पमत्तसाहुस्स छव्वीसा 26 // 5 // विउ. वाहारगमीसगरहिया चउवोस होइ अपमत्ते 24 / आहारगवेउवियहीणदुवीसा अपुवंमि 22 // 6 // हासाइछकरहिया, सोलस अनियटियायरे होति 16 / संजलणवेयनियतियरहिया इह होंति दस सुहमे 10 // 7 // उवसंते 9 तह खोणे 9, नव नव हेऊ न लोहपरिहीणा / दोमणदोवइरहिया, कम्मणओरालमीसजुया // 8 // एवं सत्त सजोगे 9, एए सव्वे न हुंन जोगंमि / चउदस गुणठाणेसु, पण. वनिच्चाइ वक्वायं // 9 // " इति गाथार्थः // 77 // . इत्युक्ता बन्धहेतवः / अधुना येषां कर्षणामेते बन्धहेतवस्तेभ्यस्तेषां बन्धं दर्शयन् संख्याविशिष्टानि तान्याह-- (मल० ) इह मिथ्यात्वाद्यवान्तरभेदानामनन्तरोक्तानां पञ्च द्वादशादीनामेकत्र मीलने सप्त पश्चाशद्भवति / तत्र मिथ्यादृष्टिगुणस्थानके आहारकतन्मिश्रवर्जाः शेषाः पञ्चपञ्चाशद्धन्धहेतवो भवन्ति / आहारकद्विकवर्जनं तु 'संयमवतों तदुदयो नान्यस्य' इतिवचनात् / तथा सासादनसम्यग्दृष्टौ पश्चाशद्वन्धहेतवः, मिथ्यात्वपञ्चकस्येहासंभवेनोपनयनात् / तथा सम्यग्मिध्यादृष्टौ त्रिचत्वारिंशद्वन्धहेतवः, यतोऽत्र 'न सम्ममिच्छो कुणइ कालं" इतिवचनात् / न परलोकगमनं तदभावाच न कार्मणौदारिकमिश्रवेक्रियमिश्रसंभवः, अनन्तानुबन्ध्युदयस्य चात्र निषिद्धत्वादनन्तानुबन्धिचतुष्टयमपि न संभवति, अत एतेषु सप्तसु पूर्वोक्तायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशदेव भवति / तथाऽविरतसम्यग्दृष्टिगुणस्थानके षट्चत्वारिंशद्वन्धहेतकः यतोऽत्र परलोकगमनसंभवात् पूर्वापनीतं कारणोदारिकमिश्रवेक्रियमिश्रलक्षणं त्रिकं पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्यत इति / तथा देशविरतिगुणस्थानके एकोन चत्वारिंशद्वन्धहेतवः यस्मामात्राप्रत्याख्यानावरणकषायोदयः, न च त्रसासंयमः, नाप्येतद्गुणस्थानकमपान्तरालगतावपयोतावस्थायां वा लभ्यते, ततोऽप्रत्याख्यानावरणचतुष्टयकार्मणौदारिकमिश्रत्रसासंयमरूपेषु सप्तसु - 1 "मोत्तु तओ" इत्यपि।